रजोभिर्धूसरैर्मन्दमारुतैः शिशिरीकृते
पीयूषांशुकरैर्विशालितहरित्प्रान्ते स्मरोद्दीपने कालिन्दीपुलिनाङ्गणे स्मितमुखं वेणुं रणन्तं मुहुः
मायूरच्छदबद्धमौलिविलसद्धंमिल्लमालं चलं दीप्यत्कुण्डलरत्नरश्मिविलसद्गण्डद्वयोद्बासितम्
अन्योन्यं विनिबद्धगोपदयितादोर्वल्लिवीतं लसद्रासक्रीडनलोलुपं मनसिजाक्रान्तं मुकुन्दं भवेत्
भ्रममाणममूभिरुदारमणिस्फुटमण्डनसिंजितचारुतनुम्
मणिशङ्कुगमप्यमुना वपुषा बहुधा विहितस्वकदिव्यतनुम्
श्रीकामः सस्वराद्यानि कलाब्जैर्वैष्णवोत्तमः
इन्द्राद्यानपि वज्रादीन्पूजयेत्तदनन्तरम्
आक्रम्य पद्भ्यामितरेतरैस्तु हस्तैर्भ्रमो ऽयं खलु रासगोष्ठी
नैवेद्यमर्चयित्वा तु चषकैर्नृपसंख्यकैः
विधाय पूर्ववच्छेषं सहस्रं प्रजपेन्मनुम्
एवं यः पूजयेत्कृष्णं स सस्मृद्धेः पदं भवेत्
भुक्त्वेह विविधान्भोगानन्ते विष्णुपदं व्रजेत्
अष्टाविंशतिवारं वा त्रिकालं पूजयेत्सुधीः
प्रातर्द्दध्ना गुडाक्तेन मध्याह्ने पयसा पुनः
ससितोपलमिश्रेण पयसा वैष्णवोत्तमः
द्वितीयान्तेषु तु पुनः पूजाशेषं समापयेत्
तत्तृत्पस्तमथोद्वास्य तन्मयः प्रजपेन्मनुम्
तानि प्रोक्तविधानानामाश्रित्यान्यतमं भजेत्
दधीनि कदली मोचा चिञ्चा रजस्वला तथा
द्रव्यषोडशकं ह्येतत्कथितं पद्मजादिभिः
चतुःसप्ततिवारं यः प्रातरेवं प्रतर्पयेत्
धारोष्णपक्कपयसा नवनीतं दधीनि च
पूजयेन्नवभिर्द्रव्यैः प्रत्येकं रविसंख्यया
यः कुर्याद्वैष्णवश्रेष्ठः पूर्वोक्तं फलमाप्नुयात्
ससितोपलधारोष्णदुग्धबुद्ध्या जलेन वै
धनवस्त्राणि भोज्यं च परिवारगणैः सह
तर्पणेनैव कार्याणि साधयेदखिलान्यपि
श्रीपुष्पैर्जुहुयान्मन्त्री श्रियमिच्छन्निनिन्दिताम्
वन्यपुष्पैर्द्विजान् जातीपुष्पैश्च पृथिवीपतीन्