हारकेयूरकटककटिसूत्रैरलङ्कृतम्
शङ्खचक्रगदापद्मराजद्भुजचतुष्टयम्
द्वितीया महिषीभिस्तु तृतीयायां समर्चयेत्
विष्वक्सेनं च शैनेयं दिक्ष्वग्रे विनतासुतम्
एवं संपूज्य विधिवत्पायसं विनिवेदयेत्
जपेदष्टशतं मन्त्री भावयन्पुरुषोत्तमम्
आसनादर्घ्यपर्यन्तं कृत्वा स्तुत्वा नमेत्सुधीः
विन्यस्य तन्मयो भूत्वा पुनरात्मानमर्चयेत्
सर्वान्कामानवाप्यान्ते स याति परमां गतिम्
यजेद्रासपरिश्रान्तं गोपीमण्डलमध्यगम्
रजोभिर्धूसरैर्मन्दमारुतैः शिशिरीकृते
पीयूषांशुकरैर्विशालितहरित्प्रान्ते स्मरोद्दीपने कालिन्दीपुलिनाङ्गणे स्मितमुखं वेणुं रणन्तं मुहुः
मायूरच्छदबद्धमौलिविलसद्धंमिल्लमालं चलं दीप्यत्कुण्डलरत्नरश्मिविलसद्गण्डद्वयोद्बासितम्
अन्योन्यं विनिबद्धगोपदयितादोर्वल्लिवीतं लसद्रासक्रीडनलोलुपं मनसिजाक्रान्तं मुकुन्दं भवेत्
भ्रममाणममूभिरुदारमणिस्फुटमण्डनसिंजितचारुतनुम्
मणिशङ्कुगमप्यमुना वपुषा बहुधा विहितस्वकदिव्यतनुम्
श्रीकामः सस्वराद्यानि कलाब्जैर्वैष्णवोत्तमः
इन्द्राद्यानपि वज्रादीन्पूजयेत्तदनन्तरम्
आक्रम्य पद्भ्यामितरेतरैस्तु हस्तैर्भ्रमो ऽयं खलु रासगोष्ठी
नैवेद्यमर्चयित्वा तु चषकैर्नृपसंख्यकैः
विधाय पूर्ववच्छेषं सहस्रं प्रजपेन्मनुम्
एवं यः पूजयेत्कृष्णं स सस्मृद्धेः पदं भवेत्
भुक्त्वेह विविधान्भोगानन्ते विष्णुपदं व्रजेत्
अष्टाविंशतिवारं वा त्रिकालं पूजयेत्सुधीः
प्रातर्द्दध्ना गुडाक्तेन मध्याह्ने पयसा पुनः
ससितोपलमिश्रेण पयसा वैष्णवोत्तमः
द्वितीयान्तेषु तु पुनः पूजाशेषं समापयेत्
तत्तृत्पस्तमथोद्वास्य तन्मयः प्रजपेन्मनुम्
तानि प्रोक्तविधानानामाश्रित्यान्यतमं भजेत्
दधीनि कदली मोचा चिञ्चा रजस्वला तथा