वेणुवीणाहेमयष्टिशङ्खशृङ्गादिपाणयः
मन्दारदींश्च तद्बाह्ये पूजयेत्कल्पपादपान्
कल्पद्रुमस्ततः पश्चाद्ध्वरिचन्दनसंज्ञकः
तदस्त्राणि च संपूज्य यजेत्कृष्णाष्टकेन च
नारायणं यदुश्रेष्ठं वार्ष्णेयं धर्मपालकम्
एभिरावरणैः पूजा कर्तव्यासुखैरिणः
एवं पूजादिभिः सिद्धा भवद्वैश्रवणो यमः
श्रीमदुद्यानसंवीतिहेमभूरत्नमण्डपे
सुत्रामरत्नसंकाशं गुडस्निग्धालकं शिशुम्
स्फुरद्विमलरत्नयुक्कनकसूत्रनद्ध दधत्सुवर्णपरिमण्डितं सुभगपैण्डरीकं नखम्
कटीलस्थले चारुजङ्घान्तयुग्मं पिनद्धं क्वणत्किङ्किणीजालदाम्ना
दधानं करो दक्षिणे पायसान्न सुहैयङ्गवीनं तथा वामहस्ते
महाभारभूतामरारातियूथांस्ततः पूतनादीन्निहॄन्तुं प्रवृत्तम्
दध्ना गुडेन नैवेद्यं दत्वा दशशतं जपेत्
नारदाद्यैर्मुनिगणैः सुरवृन्दैश्च पूजितम्
शिखण्डिच्छदापीडमब्जायताक्षं लसञ्चिल्लिकं पूर्णचद्राननं च
सुकार्तस्वराभांबरं दिव्यभूषं क्वणत्किङ्किणीजालमत्तानुलेपम्
दक्षे तथैवेप्सितदानदक्षं ध्यात्वार्चयेन्नन्दजमिन्दिराप्त्यै
अपूपपायसान्नाद्यैर्नैवैद्यं परिकल्पयेत्
स्वस्वदिक्षु बलिं दद्याद्दिशेदाचमनं ततः
अह्नो मध्ये यजेदेवं यः कृष्णं वैष्णवोत्तमः
मेधायुःश्रीकान्तियुक्तः पुत्रैः पौत्रैश्च वर्द्धते
सायाह्ने निशि वेत्यत्र वदन्त्येके विपश्चितः
उभयीमुभयेनैव कुर्यादित्यपरे जगुः
अष्टसाहस्रसंख्यातैर्भवनैरुपमण्डिते
सरोभिर्नीलांभोभिः परीते भवनोत्तमे
हेमांभोजासनासीनं कृष्णं त्रैलोक्यमोहनम्
तेभ्यो मुनिभ्यः स्वं धाम दिशन्तं परमक्षरम्
स्निग्धं कुन्तलसंभिन्नकिरीटवनमालिनम्
श्रीवत्सवक्षसं भ्राजत्कौस्तुभं सुमनोहरम्