देवा अपि नमन्त्येनं किंपुनर्मानवा भुवि
देवं ध्यायन्स्वहृदये सर्वाभीष्टप्रदायकम्
सस्मेयमञ्जरीवृन्दवल्लरीवेष्टितैः शुभैः
स्मरेच्छिशिरितं वृन्दावनं मन्त्रीसमाहितः
लुब्धान्तः करणैर्गुञ्जद्द्विरेफपटलैः शुभम्
मुखरीकृतमानृत्यन्मायूरकुलमञ्जुलम्
उन्निद्रांबुरुहव्रातरजोभिर्धूसरैः शिवैः
विलोलनपरैः संसेवितं वा तैर्निरन्तरम्
तदधः स्वर्णवेद्यां च रत्नपीठमनुत्तमम्
अष्टपत्रं च तन्मध्ये मुकुन्दं संस्मरेत्स्थितम्
पीतांशुकं चन्द्रमुखं सरसीरुहनेत्रकम्
व्रजस्त्रीनेत्रकमलाभ्यर्चितं गोगणावृतम्
एवं ध्यात्वा जपेदादावयुतद्वितयं बुधः
जपेत्पश्चान्मन्त्रसिद्ध्यै भूतलक्षं समाहितः
पूर्वोक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः
मुखे वेणुं समभ्यर्च्य वनमालां च कौस्तुभम्
ततः श्वेतां च तुलसीं शुक्लचन्दनपङ्किलाम्
अर्पयेद्दक्षिणे जद्वयमश्वारियुग्मकम्
पद्मद्वयं च विधिवत्ततः शीर्षे समर्पयेत्
ततः सर्वाणि पुष्पाणि सर्वाङ्गेषु समर्पयेत्
वामे च रुक्मिणीं तदून्नित्यां रक्तां रजोगुणाम्
यजेद्दामसुदामौ च वसुदामं च किङ्किणीम्
अग्निनैरृतिवाय्वीशकोणेषु हृदयादिकान्
रुक्मिणी सत्यभामा च नाग्नजित्यभिधा पुनः
सुशीला च लसद्रम्यचित्रितांबरभूषणा
नन्दगोपं यशोदां च बलभद्रं सुभद्रिकाम्
ज्ञानमुद्राभयकरौ पितरौ पीतपाण्डुरौ
धारयन्त्यौ चरुं चैव पायसीं पूर्णपात्रिकाम्
बलः शङ्खेन्दुधवलो मुशलं लाङ्गलं दधत्
कला या श्यामला भद्रा सुभद्रा भद्रभूषणा