घ्राणयोर्वदने कण्ठे हृदि नाभौ तथा पुनः
हृदन्तान्मन्त्रवर्णांश्च ततो मूर्ध्नि ध्रुवं न्यसेत्
विन्यसेद्धृदयान्तानि मनोः पञ्चपदानि च
अथ वक्ष्ये महागुह्यं सर्वन्यासोत्तमोत्तमम्
अणिमाद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः
ताराद्याभिर्व्याहृतिभिः संपुटं विन्यसेन्मनुम्
गायत्र्या पुटुतं मन्त्रं विन्यसेन्मातृकास्थले
मातृकापुटितं मूलं विन्यसेत्साधकोत्तमः
तृचं न मातृकावर्णान्पूर्वं तत्तत्स्थले सुधीः
अनेन न्यासवर्येण साक्षात्कृष्णसमो भवेत्
देवा अपि नमन्त्येनं किंपुनर्मानवा भुवि
देवं ध्यायन्स्वहृदये सर्वाभीष्टप्रदायकम्
सस्मेयमञ्जरीवृन्दवल्लरीवेष्टितैः शुभैः
स्मरेच्छिशिरितं वृन्दावनं मन्त्रीसमाहितः
लुब्धान्तः करणैर्गुञ्जद्द्विरेफपटलैः शुभम्
मुखरीकृतमानृत्यन्मायूरकुलमञ्जुलम्
उन्निद्रांबुरुहव्रातरजोभिर्धूसरैः शिवैः
विलोलनपरैः संसेवितं वा तैर्निरन्तरम्
तदधः स्वर्णवेद्यां च रत्नपीठमनुत्तमम्
अष्टपत्रं च तन्मध्ये मुकुन्दं संस्मरेत्स्थितम्
पीतांशुकं चन्द्रमुखं सरसीरुहनेत्रकम्
व्रजस्त्रीनेत्रकमलाभ्यर्चितं गोगणावृतम्
एवं ध्यात्वा जपेदादावयुतद्वितयं बुधः
जपेत्पश्चान्मन्त्रसिद्ध्यै भूतलक्षं समाहितः
पूर्वोक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः
मुखे वेणुं समभ्यर्च्य वनमालां च कौस्तुभम्
ततः श्वेतां च तुलसीं शुक्लचन्दनपङ्किलाम्
अर्पयेद्दक्षिणे जद्वयमश्वारियुग्मकम्
पद्मद्वयं च विधिवत्ततः शीर्षे समर्पयेत्
ततः सर्वाणि पुष्पाणि सर्वाङ्गेषु समर्पयेत्