वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः
परमेष्ठिपुमाञ्च्छौ चविश्वनिवृत्तिसर्वकाः
स्वबीजाद्यं कोपतत्वं नृसिंहं व्यापकेन च
मकाराद्या आद्यवर्णाः सर्वे स्युश्चन्द्रभूषिताः
प्राणायामं ततः कृत्वा पूरकुम्भकरेचकैः
केचिदाहुरिहाचार्याः प्राणायामोत्तरं पुनः
दशतत्त्वादि विन्यस्य वक्ष्यमाणविधानतः
सर्वाङ्गे व्यापकं कृत्वा किरीटमनुना सुधीः
पञ्चाङ्गुलीषु करयोः पञ्चाङ्गं विन्यसेत्ततः
सकृद्व्यापय्य तारेण मन्त्रन्यासं ततश्चरेत्
घ्राणयोर्वदने कण्ठे हृदि नाभौ तथा पुनः
हृदन्तान्मन्त्रवर्णांश्च ततो मूर्ध्नि ध्रुवं न्यसेत्
विन्यसेद्धृदयान्तानि मनोः पञ्चपदानि च
अथ वक्ष्ये महागुह्यं सर्वन्यासोत्तमोत्तमम्
अणिमाद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः
ताराद्याभिर्व्याहृतिभिः संपुटं विन्यसेन्मनुम्
गायत्र्या पुटुतं मन्त्रं विन्यसेन्मातृकास्थले
मातृकापुटितं मूलं विन्यसेत्साधकोत्तमः
तृचं न मातृकावर्णान्पूर्वं तत्तत्स्थले सुधीः
अनेन न्यासवर्येण साक्षात्कृष्णसमो भवेत्
देवा अपि नमन्त्येनं किंपुनर्मानवा भुवि
देवं ध्यायन्स्वहृदये सर्वाभीष्टप्रदायकम्
सस्मेयमञ्जरीवृन्दवल्लरीवेष्टितैः शुभैः
स्मरेच्छिशिरितं वृन्दावनं मन्त्रीसमाहितः
लुब्धान्तः करणैर्गुञ्जद्द्विरेफपटलैः शुभम्
मुखरीकृतमानृत्यन्मायूरकुलमञ्जुलम्
उन्निद्रांबुरुहव्रातरजोभिर्धूसरैः शिवैः
विलोलनपरैः संसेवितं वा तैर्निरन्तरम्
तदधः स्वर्णवेद्यां च रत्नपीठमनुत्तमम्
अष्टपत्रं च तन्मध्ये मुकुन्दं संस्मरेत्स्थितम्