पठतां शृण्वतां चैव गच्छ विप्र यथासुखम्
वचनं दक्षिणीकृत्य नत्वा चागां यथागतः
सुखदं मोक्षदं सारं किमन्यच्छ्रोतुमिच्छसि
यत्पप्रच्छ पुनस्तच्च युष्मभ्यं प्रवदाम्यहम्
चरितं च महत्पुण्यं श्रुत्वा भूयो ऽब्रवीद्वचः
श्रावितं चरितं पुण्यं शिवस्य च हनूमतः
तत्प्रब्रूहि महाभाग किं पृष्ट्वान्यद्विदांवर
ब्रह्माद्या यान्समाराध्य सृष्ट्यादिकरणे क्षमाः
गोपीजनपदं पश्चाद्वल्लभायाग्निसुंदरी
नारदो ऽस्य मुनिश्छन्दो गायत्री देवता पुनः
स्वाहा शक्तिर्नियोगस्तु चतुर्वर्गप्रसिद्धये
गुह्ये बीजं पदोः शक्तिं न्यसेत्साधकसत्तमः
पञ्चाङ्गानि प्रविन्यस्य तत्त्वन्यासं समाचरेत्
मत्यन्तानि च तत्वानि जीवाद्यानि न्यसेत्क्रमात्
शब्दं स्पर्शं रूपरसौ गन्धं श्रोत्रं त्वचं तथा
पायुं शिश्नमथाकाशं वायुं वह्निं जलं महीम्
मूर्द्धास्यहृद्गुह्य पादेष्वथ शब्दादिकान्न्यसेत्
तथा वागादीन्द्रियाणि स्वस्वस्थानषु विन्यसेत्
हृत्पुण्डरीकमर्केन्दुह्निबिंबान्यनुक्रमात्
भूताष्टां गाक्षिपदगैर्वर्णैः प्रग्विन्न्यसेद्धृदि
वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः
परमेष्ठिपुमाञ्च्छौ चविश्वनिवृत्तिसर्वकाः
स्वबीजाद्यं कोपतत्वं नृसिंहं व्यापकेन च
मकाराद्या आद्यवर्णाः सर्वे स्युश्चन्द्रभूषिताः
प्राणायामं ततः कृत्वा पूरकुम्भकरेचकैः
केचिदाहुरिहाचार्याः प्राणायामोत्तरं पुनः
दशतत्त्वादि विन्यस्य वक्ष्यमाणविधानतः
सर्वाङ्गे व्यापकं कृत्वा किरीटमनुना सुधीः
पञ्चाङ्गुलीषु करयोः पञ्चाङ्गं विन्यसेत्ततः
सकृद्व्यापय्य तारेण मन्त्रन्यासं ततश्चरेत्