जगज्जाड्यविध्वंसनोभुक्तिमुक्तिप्रदः स्तात्प्रसन्नः सदा शुद्ध कीर्तिः
लयं यास्यते यत्र वाचां विदूरे स वै नः प्रसन्नो ऽस्तु कालत्रयात्मा
स वै सर्वमूर्तिः सदा नो विभूत्येप्रसन्नो ऽस्तु किं ज्ञापयामो ऽत्र कृत्यम्
विष्णुमाह मुनीनेतानानयस्व मदन्तिकम्
मुनीन्सांत्वय्य विश्वेशं दर्शयामास शङ्करम्
तपोलोकाद्भूमिलोकं मुनयो मुक्तकिल्बिषाः
देव द्वादशलोकानां दृश्यन्ते भस्मराशयः
तच्छ्रुत्वा गिरिशः प्राह तान्मुनीनूर्द्धरेतसः
सन्देहो नास्ति मुनयः स्थितानां नो रहःस्थले
कथमङ्गारवृष्टिश्च कथं नो वा महाध्वनिः
प्रोचुः प्राञ्जलयो देवं ब्रह्मादिसुरसंगतम्
स एवाङ्गार वृष्टिं च पिपासुरपिबद्विभोः
वीरो ऽप्याह कपेर्लिङ्गे पीठाभावादिदं कृतम्
कपेश्चित्तं परिज्ञातुं मया कृतमिदं द्विजाः
इत्युक्त्वा तु यथापूर्वं देवदेवः कृपानिधिः
कल्पयामास विश्वात्मा वीरभद्रमथाब्रवीत्
ततस्ते विपुला कीर्तिर्लोके स्थास्यति शाश्वती
तांबूलं वीरभद्राय दत्तवान्प्रीतमानसः
समाप्तायां तु पूजायां हनुमान्प्रीतमानसः
ददर्श तमथाभ्याह वीणा मे दीयतामिति
ममापीष्टेहं गन्धर्व वीणेत्याह कपीश्वरः
तदा मुष्टिप्रहारेण गन्धर्वः पातितः क्षितौ
हनुमान्वानरश्रेष्ठो गायन्प्रागाच्छिवान्तिकम्
बृहतीकुसुमैः शुद्धैर् देवपादावपूजयत्
दैत्यानां देवतानां च नृपाणां शङ्करो ऽपि च
समुल्लङ्घने शक्तिं शास्त्रज्ञत्वं बलोन्नतिम्
प्रत्यक्षं मम विप्रेन्द्र हनुमान्हर्षमागगतः
प्रसन्नमूर्तिस्तरुणः शिवांशः संभावयामास समस्तदेवान्
महेशेनाहमप्येनं शशिमौलिमवैमि च
बुद्धौ न्याये च वै धैर्ये तादृगन्यो ऽस्ति न क्वचित्