एकेनाह्ना समस्तानां पातकानां क्षयो भवेत्
एवमेतत्कपिश्रेष्ठ युदुक्तं पूजनं मम
आराधनं यथालिङ्गे विस्तरेण त्वयोदितम्
ततः प्राह कपिश्रेष्ठो देवदेवमुमापतिम्
तां करोमि पुरा देव पश्चात्त्वत्पादपूजनम्
सरसस्तीरमागत्य कृत्वा सैकतवेदिकाम्
प्रक्षाल्य पादौ हस्तौ च समाचम्य समाहितः
देववेद्यामथो चक्रे पद्मं च सुमनोहरम्
प्राणानायम्य संन्यस्य शुल्कध्यानसमन्वितः
अथ देवार्यनं कर्त्तुं यत्नमास्थितवान्कपिः
शिरः कमण्डलुगतं निधायाग्निनिमन्त्रितम्
अथ स्नापयितुं देवमादाय करसंपुटे
लिङ्गमात्रं करगतं दृष्ट्वा भीतिसमन्वितः
यदेतत्पीठरहितं शिवलिङ्गं करस्थितम्
अथ रुद्रं जपिष्यामि तदायति महेश्वरः
यदा तु न समायातो महेशो ऽथ कपीश्वरः
किमर्थं रुद्यते भद्र रुदिते कारणं वद
पीठहीनमिदं लिङ्गं पश्य मे पापसंचयम्
यदि नायाति पीठं ते लिङ्गे मा साहसं कुरु
पश्य दर्शय मे लिङ्गं पीठं चात्रागतं न वा
दग्धुकामो ऽखिलांल्लोकान्वीरभद्रः प्रातापवान्
अथ सप्ततलान्दग्ध्वा पुनरूर्द्ध्वमवर्तत
ललाटनेत्रसंभूतं नखेनादाय चानलम्
तपः सत्यं च संदग्धुमुद्यतो ऽभून्मुनीश्वरः
दग्धुकामं वीरभद्रं गौतमाश्रममागताः
अस्तुवन्भक्तिसंयुक्ताः स्तोत्रैर्वेदसमुद्भवैः
ब्रह्माद्यधीशाय सृष्ट्यादिकर्त्रे,विष्णुप्रियायार्तिहॄन्त्रेंऽतकर्त्रे
नमो वेदगुह्याय भक्तप्रियाय नमः पाकभोक्त्रे मखेशाय तुभ्यम्
नमस्ते सुराबिन्दुवर्षापनाय त्रयीमूर्तये कालकालाय नाथ
शिवायाशिवघ्नाय वीराय भूयात्सदा नः प्रसन्नो जगन्नाथकेज्यः