विभूष्य भूषणैर्देवं पुनः स्नाप्यमहेश्वरम्
वस्त्रं तथोपवीतं च गन्धद्रव्यकमेव च
तूष्णीमथोपचारं वा कालीयं पुष्पमेव च
अनेकद्रव्यधूपं च गुग्गुलं केवलं तथा
धूपं दत्वा यथाशक्ति कपिलाघृतदीपकान्
नैवेद्यमुपपन्नं च दत्वा पुष्पसमन्वितम्
प्रदक्षिणनमस्कारौ पूजैवं हि समाप्यते
गीतिर्वाद्यं पुराणं च नृत्यं हासोक्तिरेव च
क्षमापनं चोद्रसनं प्रोक्तं पञ्चोपचारकम्
उपवीत च कैकर्यं षोडशानुपचारकान्
एकेनाह्ना समस्तानां पातकानां क्षयो भवेत्
एवमेतत्कपिश्रेष्ठ युदुक्तं पूजनं मम
आराधनं यथालिङ्गे विस्तरेण त्वयोदितम्
ततः प्राह कपिश्रेष्ठो देवदेवमुमापतिम्
तां करोमि पुरा देव पश्चात्त्वत्पादपूजनम्
सरसस्तीरमागत्य कृत्वा सैकतवेदिकाम्
प्रक्षाल्य पादौ हस्तौ च समाचम्य समाहितः
देववेद्यामथो चक्रे पद्मं च सुमनोहरम्
प्राणानायम्य संन्यस्य शुल्कध्यानसमन्वितः
अथ देवार्यनं कर्त्तुं यत्नमास्थितवान्कपिः
शिरः कमण्डलुगतं निधायाग्निनिमन्त्रितम्
अथ स्नापयितुं देवमादाय करसंपुटे
लिङ्गमात्रं करगतं दृष्ट्वा भीतिसमन्वितः
यदेतत्पीठरहितं शिवलिङ्गं करस्थितम्
अथ रुद्रं जपिष्यामि तदायति महेश्वरः
यदा तु न समायातो महेशो ऽथ कपीश्वरः
किमर्थं रुद्यते भद्र रुदिते कारणं वद
पीठहीनमिदं लिङ्गं पश्य मे पापसंचयम्
यदि नायाति पीठं ते लिङ्गे मा साहसं कुरु
पश्य दर्शय मे लिङ्गं पीठं चात्रागतं न वा