सर्वाभरणसंयुक्तमिमादिगुणान्वितम्
तया दीप्त्या शरीरस्थं पापं नाशमुपागतम्
तद्द्वादशदलावृत्तमष्ट पञ्च त्रिरेव वा
गुहास्थितं महेशानं र्लिङ्गेशं चिन्तयेत्था
सुगन्धपुष्पं निक्षिप्य प्राणवेनाभिमन्त्रितम्
प्राणायामपदे ध्यानं शिवेत्योङ्कारमन्त्रितम्
तानि स्थाप्य समीपे तु ततः संकल्प माचरेत्
इति संकल्पयित्वा तु तत आवाहनादिकम्
नमस्तेत्यादिमन्त्रेण शतरुद्रविधानतः
तया यः स्नापयेन्मांस जपचुद्रमुखांश्च चा
एकादश तथा वारमथैकादशधान्वितम्
शैवयाविद्यया स्नानं केवलं प्रणवेन वा
कांस्येन मुक्ताशुक्त्या च पुष्पादिकेसरेण वा
शृङ्गस्य च विधिं वक्ष्ये स्नानयोग्यं यथा भवेत्
सुग्रिग्धं लघु कृत्वाथ नाङ्गं छिन्द्यात्कथञ्चन
कृशानुयुक्तं स्नानं तु देवाय परिकल्पयेत्
द्वारे निषिद्धलोहार्द्धसंधिद्वारासमन्विते
फलस्थाने तु चषकं दण्डेन समरन्ध्रकम्
पातयेदथ चान्येन वामेनैव करेण वा
एवं संस्नाप्य देवेशं पञ्चगव्यैस्तथैव च
विभूष्य भूषणैर्देवं पुनः स्नाप्यमहेश्वरम्
वस्त्रं तथोपवीतं च गन्धद्रव्यकमेव च
तूष्णीमथोपचारं वा कालीयं पुष्पमेव च
अनेकद्रव्यधूपं च गुग्गुलं केवलं तथा
धूपं दत्वा यथाशक्ति कपिलाघृतदीपकान्
नैवेद्यमुपपन्नं च दत्वा पुष्पसमन्वितम्
प्रदक्षिणनमस्कारौ पूजैवं हि समाप्यते
गीतिर्वाद्यं पुराणं च नृत्यं हासोक्तिरेव च
क्षमापनं चोद्रसनं प्रोक्तं पञ्चोपचारकम्
उपवीत च कैकर्यं षोडशानुपचारकान्