स्वसारमविचार्यैव खलाः कार्याणि कुर्वते
विष्णुर्वामनरुपेण ह्यदितेः पुत्रातां गतः
न किञ्चिदपि दातव्यं मन्मतं शृणु पण्डित
परबुद्धिर्विनाशाय स्त्रीबुध्दिः प्रलयङ्करी
शत्रूणां हितकृतद्यस्तु स हन्तव्यो विशेषतः
यदादत्ते स्वयं विष्णुः किमस्मादधिकं वरम्
स चेत्साक्षाद्धविर्भोगी मत्तः को ऽभ्यधिको भुवी
तदेव परमं दानं दत्तं भवति चाक्षयम्
येन केनाप्यर्चितश्वेद्ददाति परमां गतिम्
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः
स विष्णुलोकमान्पोति पुनरावृत्तिदुर्लभम्
स याति विष्णुभवनमिति प्राहुर्मनीषिणः
हरिभक्त्या महाभाग तेन विष्णुः प्रसीदति
स्वयमायाति चेद्विष्णुः कृतार्थो ऽस्मि न संशयः
प्रविवेशाध्वरस्थानं हुतवह्निमनोरमम्
वामनं सहसोत्थाय प्रत्यगृह्णात्कृताञ्जलिः
सकुटुंबो वहन्मूर्ध्ना परमां मुदमात्पवान्
रोमाञ्चिततनुर्भूत्वा हर्षाश्रुनयनो ऽब्रवीत्
जीवितं सफलं मे ऽद्य कृतार्थो ऽस्मि न संशयः
त्वदागमनमात्रेण ह्यनायासो महोत्सवः
यैः पूर्वं हि तपस्तप्तं तदद्य सफलं प्रभो
तस्मात्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः
अत्युत्साहसमायुक्तं समाज्ञापय मां प्रभो
देहि मे तपसि स्थातुं भूमिं त्रिपदसंमिताम्
ग्रामं वा नगरं चापि धनं वा किं कृतं त्वया
आसन्नभ्रष्टराज्यस्य वैराग्यं जनमन्निवा
सर्वसंगविहीनानां किमर्थैः साध्यतेवद
मयि सर्वमिदं दैत्य किमन्यैः साध्यते वद
नित्यानन्दस्वरुपाणां किमन्यैः साध्यते धनैः
अभिन्नमात्मनः सर्वं को दाता दीयते च किम्