ततस्त्यक्त्वा भयं प्राह हनुमान् वाक्यकोविदः
दिवा संपादितैस्तैयैः पुष्पाद्यैरपि तादृशैः
सायङ्काले तु संप्राप्ते अशिरःस्नानमाचरेत्
अथ भस्म समादाय आग्नेयं स्नानमाचरेत्
पञ्चाक्षरेण मन्त्रेण नाम्ना वा येन केनचित्
ईशानः सर्वविद्यानामुक्त्वा शिरसिपातयेत्
अघोरेभ्यो ऽथ घोरेभ्यो भस्म वक्षसि निक्षिपेत्
सद्योजातं प्रपद्यामि निक्षिपेदथ पादयोः
त्रैवर्णिकानामुदितऋ स्नानादिविधिरुत्तमः
शिवेति पदमुञ्चार्य भस्म संमन्त्रयेत्सुधीः
शङ्कराय मुखे प्रोक्तं सर्वज्ञाय हृदि क्षिपेत्
उच्चार्य पादयोः क्षिप्त्वा भस्म शुद्ध्वमतः परम्
प्रक्षाल्य हस्तावाचम्य दर्भपाणिः समाहितः
तदभावे तु दूर्वाः स्युस्तदभावे तु राजतम्
देववेदीमथो वापि कल्पितं स्थण्डिलं तु वा
चातुर्वर्णकरं गैश्च श्वेतेनैकेन वा पुनः
उत्पलादिगदाशङ्खत्रिशूलडमरूंस्तथा
सर्वकामफलं वृक्षं कुलकं कोलकं तथा
कोणे द्वादशकान्दोलापादुकाव्यजनानि च
चूर्णैविरचयेद्वेद्यां धीमान्देवालये ऽपि वा
स्वहस्तरचितं मुख्यं क्रीतं चैव तु मध्यमम्
अर्हेषु यत्त्वनर्हेषु बलात्कारात्तु निष्फलम्
तन्दुलैर्वीहिमात्रोत्थैः कणैश्चैव यथाक्रमम्
पद्मादिस्थापनैरेव तत्सम्यग्यागमाचरेत्
आसनं च प्रवक्ष्यामि यथादृष्टं यथा श्रुतम्
कांबलं काञ्चनं चैव राजतं ताम्रमेव च
वैयाघ्रं रौरवं चैव हारिण मार्गमेव च
यथासंभवमेतेषु ह्यासनं परिकल्पयेत्
दर्भभस्मसमासीनः प्राणानायम्य वाग्यन्तः
शिखान्ते द्वादशाङ्गुल्ये स्थितं सूक्ष्मतनुं शिवम्