किमिदं देवि चेत्युक्त्वा नीवीबन्धं चकार ह
ततः प्राह शिवा शंभुं स्मित्वा पर्वतनन्दिनी
पूर्वमेव मया सर्वं ज्ञातप्रायमभूत्किल
शिरो विभूषितं देव ब्रह्मशीर्षस्य मालया
शेषश्च वासुकिश्चैव सविषौ तव कङ्कणौ
महोक्षो वाहनं गोत्रं कुलं चाज्ञातमेव च
एवं वदन्तीं गिरिजां विष्णुः प्राहातिकोपनः
दुष्प्राणा न प्रिया भद्रे तव नूनमसंयमात्
इत्युक्त्वाथ नखाभ्यां हि हरिश्छेत्तुं शिरो गतः
पार्वतीवचनं सर्वं प्रियं मम न चाप्रियम्
ओमित्युक्त्वाथ भगवांस्तूष्णींभूतो ऽभवद्ध्वरिः
अर्थयामि विनिष्कामं मम पूजाव्रतं तथा
तच्छ्रत्वा शङ्करो देवः स्मित्वा प्राह वपीश्वरम्
को गुरुः कश्च मन्त्रस्ते कीदृशं पूजन तथा
वेपमानसमस्ताङ्ग स्तोतुमेवं प्रचक्रमे
योरिने योगधात्रे च योगिनां गुरवे नमः
वेदानां पतये तुभ्यं देवानां पतये नमः
अष्टमूर्ते नमस्तुभ्यं पशूनां पतये नमः
सुभृङ्गराजधत्तूरद्रोणपुष्पप्रियस्य ते
नमस्ते ऽस्तु नमस्ते ऽस्तु भूय एव नमोनमः
ततस्त्यक्त्वा भयं प्राह हनुमान् वाक्यकोविदः
दिवा संपादितैस्तैयैः पुष्पाद्यैरपि तादृशैः
सायङ्काले तु संप्राप्ते अशिरःस्नानमाचरेत्
अथ भस्म समादाय आग्नेयं स्नानमाचरेत्
पञ्चाक्षरेण मन्त्रेण नाम्ना वा येन केनचित्
ईशानः सर्वविद्यानामुक्त्वा शिरसिपातयेत्
अघोरेभ्यो ऽथ घोरेभ्यो भस्म वक्षसि निक्षिपेत्
सद्योजातं प्रपद्यामि निक्षिपेदथ पादयोः
त्रैवर्णिकानामुदितऋ स्नानादिविधिरुत्तमः
शिवेति पदमुञ्चार्य भस्म संमन्त्रयेत्सुधीः