यत्त्वां स्वमन्दिरे त्यक्त्वा महदेनो मया कृतम्
न बभाषे ऽप्येवमुक्ता सारुन्धत्या विनिर्ययौ
अथोवाच शिवा तं चगौतम त्वं किमिच्छसि
कृतकृत्यो भवेयं वै भुक्तायां मद्गृहे त्वयि
भोक्ष्यामि त्वद्गृहे विप्र शङ्करानुमतेन वै
भोजयामास गिरिजां देवीं चारुन्धतीं तथा
सहानु चरकन्याभिः सहस्राभिर्हरं ययौ
संध्योपास्तिमहं कृत्वा ह्यागमिष्ये तवान्तिकम्
संध्यावदनकामास्तु सर्व एव विनिर्गताः
अथोत्तरमुखः शंभुर्न्यास कृत्वा जजाप ह
सर्वैर्नमस्यते यस्तु सर्वैरेव समर्च्यते
रचिताञ्जलयः सर्वे त्वामेवैकमुपासिते
नमस्कारादिपुण्यानां फलदस्त्वं महेश्वरर
तच्छ्रुत्वा शङ्करः प्राह देवदेवं जनार्दनम्
किन्तु नास्तिकजन्तूनां प्रवृत्त्यर्थमिदं मया
तस्माल्लोकोपकारार्थमिदं सर्वं कृतं मया
अथ ते गौतमगृहं प्राप्ता देवर्षयस्तदा
देवो हनूमता सार्द्ध्वं गायन्नास्ते मुनीश्वर
हनुमत्करमालंब्य देवाभ्यां संगतो हरः
गायन्नास्ते च हनुमांस्तुंबुरुप्रमुखास्तथा
आहूय पार्वतीमीश इदं वाक्यमुवाच ह
देव्याह न च युक्तं तद्भर्त्त्रा शुश्रूषणं स्त्रियः
केशप्रसाधने देव तत्त्वं सर्वं न चेप्सितम्
ततश्चरमसंलग्न केशपुष्पादिमार्जनम्
तदा किमुत्तरं वाच्यं तव देवादिवन्दित
एवं हि भाषमाणां तां करेणाकृष्य शङ्करः
विभज्य च कराभ्यां स प्रससार नखैरपि
कृत्वा धंमिल्लमकरोदथ मालां करागताम्
कल्पप्रसूनमालां च ब्रह्मदत्तां महेश्वरः
अथांसपृष्ठ संलग्नमार्जनं कृतवान् विभुः