संस्कृताः स्वायतास्तत्र नरा नार्यो ऽथवा नृपाः
मधुर्पिगमनिर्यासमसांद्रमगुरूद्भवम्
मस्तके जापकं न्यस्य पञ्चगन्धविलेपनम्
एवमेवार्चिता नार्य आप्तकुङ्कुमविग्रहाः
एतादृग्वनिताभिर्वा नरैर्वा दापयेज्जलम्
अथवामकरे न्यस्य करकं प्रेक्ष्य तत्र हि
एवं स कारयामास गौतमो भगवान्मुनिः
प्रक्षालिताङ्घ्रिहस्तेषु गन्धोद्वर्तितपाणिषु
अथ नीचसमासीनादेवाः सर्षिगणास्तथा
अकोणान्वर्तुलान्स्थूलानसूक्ष्मानकृशानपि
चूर्णं च शङ्करायाथ निवेदयति गौतमे
कपे गृहाण तांबूलं प्रयच्छ मम खण्डकान्
अनेकफलभोक्तृआत्वाद्वानरस्तु कथं शुचिः
मद्वाक्यादखिलं शुद्ध्येन्मद्वाक्यादमृतं विषम्
मद्वाङ्क्याद्ध्वर्मविज्ञानं मद्वाक्यान्मोक्ष उच्यते
अतो गृहाण तांबूलं मम देहि सुखण्डकान्
तततः पत्राणि संगृह्य तस्मै खण्डान्समर्पयत्
देवे तु कृततांबूले पार्वती मन्दराचलात्
देवपादौ ततो नत्वा विनम्रवदनाभवत्
त्वदर्थं देवदेवेशि अपराधः कृतो मया
यत्त्वां स्वमन्दिरे त्यक्त्वा महदेनो मया कृतम्
न बभाषे ऽप्येवमुक्ता सारुन्धत्या विनिर्ययौ
अथोवाच शिवा तं चगौतम त्वं किमिच्छसि
कृतकृत्यो भवेयं वै भुक्तायां मद्गृहे त्वयि
भोक्ष्यामि त्वद्गृहे विप्र शङ्करानुमतेन वै
भोजयामास गिरिजां देवीं चारुन्धतीं तथा
सहानु चरकन्याभिः सहस्राभिर्हरं ययौ
संध्योपास्तिमहं कृत्वा ह्यागमिष्ये तवान्तिकम्
संध्यावदनकामास्तु सर्व एव विनिर्गताः
अथोत्तरमुखः शंभुर्न्यास कृत्वा जजाप ह