हनूमता समो नास्ति कृत्स्नब्रह्माण्डमण्डले
सर्वोपनिषदव्यक्तं त्वत्पदं कपिसर्वयुक्
महायोगिहृदंभोजे परं स्वस्थं हनूमति
भक्त्या संपूजितो ऽपीश पादो नो दर्शितस्त्वया
हरिप्रियस्तथा शंभुर्न तादृग्भाग्यमस्ति मे
न त्वया सदृशो मह्यं प्रियो ऽन्यो ऽस्ति हरे क्वचित्
अथ देवाय महते गौतमः प्राणिपत्य च
मध्याह्नो ऽयं व्यतिक्रान्तो भुक्तिवेलाखिलस्य च
प्रविश्य गौतमगृहं भोजनायोपचक्रमे
हारैरनेकैरथ कण्ठनिष्कयज्ञोपवीतोत्तरवाससी च
पञ्चाङ्गगन्धस्य विलेपनेन बाह्वङ्गदैः कङ्कणकाङ्गुलीयैः
स्वसंमुखं हरिं तथा न्यवेशयद्वरासने
सुवर्णभाजनस्थान्नं ददौ भक्त्या स गौतमः
सुपक्वं पाकजातं च कल्पितं यच्छतद्वयम्
शतं शतं सुकन्दानां शाकानां च प्रकल्पितम्
शर्कराद्यं तथा चूतमोचाखर्जूरदाडिमम्
प्रियालक्रञ्जम्बुफलं विकङ्कतफलं तथा
दत्त्वापोशानकं विप्रो भुञ्जध्वमिति चाब्रवीत्
गौतमः स्वयमादाय शिवविष्णू अवीजयत्
पश्य विष्णो हनूमन्तं कथं भुङ्क्ते स वानरः
चक्षेप मुनिसंषेषु पश्यत्स्वपि महेश्वरः
त्वदुच्छिष्टभोज्यं तु तवैव वचनाद्विभो
मह्यं निवेद्य सकलं कूप एव विनिःक्षिपेत्
बाणलिङ्गे स्वयंभूते चन्द्रकान्ते हृदि स्थिते
भुक्तिवेलेयमधुना तद्वैरस्यं कथान्तरात्
अथासौ जलसंस्कारं कृतवान् गौतमो मुनिः
तडागतोयैः कतबीजघर्षितैर्विशौधितैस्तैः करकानपूरयत्
यामस्यापि पुनश्च वारिवसनेनाशोध्य कुम्भेन तञ्चन्द्प्रन्थिमथो निधाय बकुलं क्षिप्त्वा तथा पाटलम्
कृत्वाथो मृदुतरं सूक्ष्मवस्त्रखण्डेनावेष्टेत्सृणिकमुखं च सूक्ष्मचन्द्रम्
मन्दवातसमोपेते सूक्ष्मव्यजनवीजेते