स्वरं ध्रुवं समादाय सर्वलक्षणसंयुतम्
वासुदेवो मर्दलं च कराभ्यामप्यवादयत्
तानका गौतमाद्यास्तु गयको वायुजो ऽभवत्
म्लानमल्मानमभवत्कृशाः पुष्टास्तदाभवन्
तूष्णीभूतं समभवद्देवर्षिगणदानवम्
स्वस्ववाह नमारुह्य निर्गताः सर्वदेवताः
प्लवग त्वं मयाज्ञप्तो निःशङ्को वृषमारुह
अथाह कपिशार्दूलो भगवन्तं महेश्वरम्
तव वाहनमारुह्य पातकी स्यामहं विभो
तव चाभिमुखं गानं करिष्यामि विलोकय
आरूढे शङ्करे देवे हनुमत्कन्धरां शिवः
शृण्वन्गीतिसुधां शंभुर्गौन्त मस्य गृहं ततः
पूजिता गौतमेनाथ भोजनावसरे सति
प्ररूढमभवत्सर्वं गायमाने हनूमति
तस्मिन्गाने समस्तानां चित्रं दृष्टिरतिष्टत
प्रसन्नमूर्तिस्तरुणः सुमध्ये विन्यस्तमूर्द्ध्वाञ्जलिभिः शिरोभिः
पद्मासनासीनहनूमतोंऽजलौ निधाय पादं त्वपरं मुखे च
स्कन्धे मुखे त्वंसतले च कण्ठे वक्षस्थले च स्तनमध्यमे हृदि
शिरो गृहीत्वावनमय्य शङ्करः पस्पर्श पृष्ठं चिबुकेन सो ऽध्वनि
हारं च मुक्तापरिकल्पितं शिवो हनूमतः कण्ठगतं चकार
हनूमता समो नास्ति कृत्स्नब्रह्माण्डमण्डले
सर्वोपनिषदव्यक्तं त्वत्पदं कपिसर्वयुक्
महायोगिहृदंभोजे परं स्वस्थं हनूमति
भक्त्या संपूजितो ऽपीश पादो नो दर्शितस्त्वया
हरिप्रियस्तथा शंभुर्न तादृग्भाग्यमस्ति मे
न त्वया सदृशो मह्यं प्रियो ऽन्यो ऽस्ति हरे क्वचित्
अथ देवाय महते गौतमः प्राणिपत्य च
मध्याह्नो ऽयं व्यतिक्रान्तो भुक्तिवेलाखिलस्य च
प्रविश्य गौतमगृहं भोजनायोपचक्रमे
हारैरनेकैरथ कण्ठनिष्कयज्ञोपवीतोत्तरवाससी च