अथेशो विष्णुमालोक्य गृहीत्वा तत्करं करे
क्षामोदरो ऽसि गोविन्द देयं ते भोजनं किमु
गच्छ वा पार्वतीगेहं या कुक्षिं पूरयिष्यति
आदिश्य नन्दिनं देवो द्वाराध्यक्षं यथोक्तवत्
संपादयान्नं देवेशा भोक्तुकामा वयं मुने
मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ
गत्वा तडागं गंभीरं स्रास्यन्तौ देवसत्तमौ
मुनयो राक्षसाश्चैव जलक्रीडां प्रचक्रिरे
चक्रतुः शङ्करऋ पद्मकिञ्जल्काञ्जलिना हरेः
नेत्रे केशरसंपातात्प्रमीलयत केशवः
हर्युत्तमाङ्गं बाहुभ्यां गृहीत्वा संन्यमज्जयत्
पीडितः स हरिः सूक्ष्मं पातयामास शङ्करम्
अताडयद्ध्वरेर्वक्षः पातयामास चाच्युतम्
शीर्षे चैवाकिरच्छंभुमथ शंभुरथो हरिः
जलक्रीडासंभ्रमेण विस्रस्तजटबन्धनाः
इतरे तरबद्ध्वासु जटासु च मुनीश्वराः
पातयन्तो ऽन्यतश्चापि क्त्रोशन्तो रुदतस्तथा
आकाशे वानरेशस्तु ननर्त च ननाद च
सुगीत्या ललिता यास्तु आगायत विधा दश
स्वयं गातुं हि ललितं मन्दंमन्दं प्रचक्रमे
स्वरं ध्रुवं समादाय सर्वलक्षणसंयुतम्
वासुदेवो मर्दलं च कराभ्यामप्यवादयत्
तानका गौतमाद्यास्तु गयको वायुजो ऽभवत्
म्लानमल्मानमभवत्कृशाः पुष्टास्तदाभवन्
तूष्णीभूतं समभवद्देवर्षिगणदानवम्
स्वस्ववाह नमारुह्य निर्गताः सर्वदेवताः
प्लवग त्वं मयाज्ञप्तो निःशङ्को वृषमारुह
अथाह कपिशार्दूलो भगवन्तं महेश्वरम्
तव वाहनमारुह्य पातकी स्यामहं विभो
तव चाभिमुखं गानं करिष्यामि विलोकय