शिष्यो ऽयं मे महाभागो हेयादेयादिवर्जितः
न घ्राणग्राह्यं देवेश न पातव्यं न चेतरत्
उन्मत्तविकृताकारः शङ्करात्मेति कीर्तितः
एतन्मे दीयतां देव मृतानाममृतिस्तथा
स्वांशेन वायुना देहमाविशज्जगदीश्वरः
पर्यायैरुच्यते ऽधीशः साक्षाद्विष्णुः शिवः परः
ममाज्ञाकारको रामभक्तः पूजितविग्रहः
त्वया कृतमिदं वेश्म विस्तृतं सुप्रतिष्टितम्
समर्चिताः प्रयास्यामः स्वस्ववासं ततः परम्
अयोग्यं प्रार्थयामीश ह्यर्थी दोषं न पश्यति
अथेशो विष्णुमालोक्य गृहीत्वा तत्करं करे
क्षामोदरो ऽसि गोविन्द देयं ते भोजनं किमु
गच्छ वा पार्वतीगेहं या कुक्षिं पूरयिष्यति
आदिश्य नन्दिनं देवो द्वाराध्यक्षं यथोक्तवत्
संपादयान्नं देवेशा भोक्तुकामा वयं मुने
मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ
गत्वा तडागं गंभीरं स्रास्यन्तौ देवसत्तमौ
मुनयो राक्षसाश्चैव जलक्रीडां प्रचक्रिरे
चक्रतुः शङ्करऋ पद्मकिञ्जल्काञ्जलिना हरेः
नेत्रे केशरसंपातात्प्रमीलयत केशवः
हर्युत्तमाङ्गं बाहुभ्यां गृहीत्वा संन्यमज्जयत्
पीडितः स हरिः सूक्ष्मं पातयामास शङ्करम्
अताडयद्ध्वरेर्वक्षः पातयामास चाच्युतम्
शीर्षे चैवाकिरच्छंभुमथ शंभुरथो हरिः
जलक्रीडासंभ्रमेण विस्रस्तजटबन्धनाः
इतरे तरबद्ध्वासु जटासु च मुनीश्वराः
पातयन्तो ऽन्यतश्चापि क्त्रोशन्तो रुदतस्तथा
आकाशे वानरेशस्तु ननर्त च ननाद च
सुगीत्या ललिता यास्तु आगायत विधा दश
स्वयं गातुं हि ललितं मन्दंमन्दं प्रचक्रमे