सर्वदा तं गुरुर्दृष्ट्वा करमालंब्य मन्दिरम्
स्वयं तदस्य पात्रेण बुभुजेगौतमो मुनिः
निर्दिष्टो गुरुपत्न्या तु बुभुजे सो ऽविशेषतः
कण्टकानन्नवद्भुक्त्वा यथापूर्वमतिष्ठत
दिनेदिने तत्प्रदत्तं लोष्टमंबु च गोमयम्
एतादृशो मुनिरसौ चण्डालसदृशाकृतिः
अन्त्यजोचितवेषश्च वृषपर्वाणमभ्यगात्
वृषपर्वा तमज्ञात्वा पीडयित्वा शिरो ऽच्छिनत्
अतीव कलुषं ह्यासीत्तत्रस्था मुनयस्तथा
निर्ययौ चक्षुषो वारि शोकं संदर्शयन्निव
किमनेन कृते पापं येन च्छिन्नमिदं शिरः
ममापि मरणं सत्यं शिष्यच्छद्मा यतो गुरुः
मरणं यत्र दृष्टं स्यात्तत्र नो मरणं ध्रुवम्
एनं संजीवयिष्यामि भार्गवं शङ्करप्रियम्
इति वादिनि विप्रेन्द्रे गौतमो ऽपि ममार ह
तस्यैवं हतिमाज्ञाय प्रह्लादाद्या दितीश्वराः
मृतमासीदथ बलं तस्य बाणस्य धीमतः
गौतमेन महेशस्य पूजया पूजितो विभुः
अहो कष्टमहोकष्टं महेशा बहवो हताः
इति निश्चित्य गतवान्मन्दराचलमव्ययम्
ब्रह्माणं च हरिं तत्र स्थितौ प्राह शिवो वचः
गत्वा पश्यामि हे विष्णो सर्वं तत्कृतसाहसम्
नन्दिकेन सुवेषेण धृते छत्रे ऽतिशोभने
महेशानुमतिं लब्ध्वा हरिर्नागान्तके स्थितः
शिवानुमत्या ब्रह्मापि हंसारूढो ऽभवत्तदा
इन्द्रादिसर्वदेवाश्च स्वस्ववाहनसंयुताः
कोटिकोटिगणाकीर्णा गौतमस्याश्रमं गताः
स्वभक्तं जीवयामास वामकोणनिरीक्षणात्
तदाकर्ण्य वचस्तस्य गौतमः प्राह सादरम्
त्वल्लिङ्गार्चनसामर्थ्यं नित्यमस्तु ममेश्वर