तन्मध्ये च महेशानं ध्यायेद्दीप्तिमयं शुभम्
तं देहमाकाशदीपे प्रदहेज्ज्ञानवह्निना
दग्ध्वाकाशमथो वायुमग्निभूतं तथा दहेत्
तदाश्रितान्गुणान्दग्ध्वा ततो देहं प्रदाहयेत्
शिखामध्यस्थितं विष्णुमानन्दरसनिर्भरम्
शिवाङ्गोत्पन्नकिरणैरमृतद्रवसंयुतैः
अनेन प्लावितं भूतग्रामं संचिन्तयेत्परम्
पूजां कर्तुं जप्यकर्मापि पश्चादेवं ध्यायेद्ब्रह्महत्यादिशुद्ध्यै
सदाशिवं दीपमध्ये विचिन्त्य पञ्चाक्षरेणार्चनमव्ययं तु
औदुंबरं राजतं स्वर्णपीठं वस्त्रादिच्छन्नं सर्वमेवेह पीठम्
कुर्यात्पीठे चोर्द्ध्वके नागयुग्मं देवाभ्याशे दक्षिणे वामतश्च
सुश्वेतेन तस्य मध्ये महेशं लिङ्गाकारं पीठयुक्तं प्रपूज्यम्
पुष्पैः पत्रैः श्रीतिलैरक्षतैश्च तिलोन्मिश्रैः केवलैश्चप्रपूज्य
पूजाशेषं ते समाप्याथ सर्वे गीतं नृत्यं तत्र तत्रापि चक्रुः
काले चास्मिन्सुव्रते गौतमस्य शिष्यः प्राप्तः शङ्करात्मेति नाम्ना
क्वचिद्द्विजातिप्रवरः क्वचिञ्चण्डालसन्निभः
गर्जत्युत्पतते चैव नृत्यति स्तौति गायति
शिवज्ञानैकसंपन्नः परमानन्दनिर्भरः
बुभुजे गुरुणा साकं क्वचिदुच्छिष्टमेव च
हस्तं गृहीत्वैव गुरोः स्वयमेवाभुनक्क्वचित्
सर्वदा तं गुरुर्दृष्ट्वा करमालंब्य मन्दिरम्
स्वयं तदस्य पात्रेण बुभुजेगौतमो मुनिः
निर्दिष्टो गुरुपत्न्या तु बुभुजे सो ऽविशेषतः
कण्टकानन्नवद्भुक्त्वा यथापूर्वमतिष्ठत
दिनेदिने तत्प्रदत्तं लोष्टमंबु च गोमयम्
एतादृशो मुनिरसौ चण्डालसदृशाकृतिः
अन्त्यजोचितवेषश्च वृषपर्वाणमभ्यगात्
वृषपर्वा तमज्ञात्वा पीडयित्वा शिरो ऽच्छिनत्
अतीव कलुषं ह्यासीत्तत्रस्था मुनयस्तथा
निर्ययौ चक्षुषो वारि शोकं संदर्शयन्निव