पुत्रो मे भरतो नाम यौवराज्ये ऽभिषिच्यताम्
तदाकर्ण्या हमुद्युक्तो ऽरण्यं भार्यानुजान्वितः
तत्र नित्यं वन्यफलैर्मांसैश्चावर्तितक्रियः
ततो भरतशत्रुघ्नौ भ्रातरौ मम मानदौ
व्यजिज्ञपतमागत्यपञ्चवट्यां निजाश्रमम्
ततस्त्रयोदशे वर्षे रावणो नाम राक्षसः
ततो ऽहं दीनवदन ऋष्यमूकं हि पर्वतम्
अथ वालिनमाहत्य सुग्रीव स्तत्पदे कृतः
विरुध्य रावणेनालं मम भक्तो विभीषणः
हत्वा तु रावणं संख्ये सपुत्रामात्यबान्धवम्
ततः कालान्तरे विप्रसुग्रीवश्च विभीषणः
अयोध्यायां समाजग्मुस्ते तु सर्वे निमन्त्रिताः
शंभुर्ब्राह्मणरूपेण षट्कुलैश्च सहागतः
नीत्वा मां द्रविडे देशे मोचय द्विजबन्धनात्
संभोजितास्तु प्रययुः स्वस्वमाश्रममण्डलम्
गौतमेन समाहूताः सर्वे यज्ञसभाजिताः
संपूज्य न्यवंसस्तत्र देवदैत्यनृपाग्रजाः
गौतमो ऽप्यथ मध्याह्ने पूजयामास शङ्करम्
सितेन भस्मना कृत्वा सर्वस्थाने त्रिपुण्ड्रकम्
हृत्पद्ममध्ये सुषिरं तत्रैव भूतपञ्चकम्
तन्मध्ये च महेशानं ध्यायेद्दीप्तिमयं शुभम्
तं देहमाकाशदीपे प्रदहेज्ज्ञानवह्निना
दग्ध्वाकाशमथो वायुमग्निभूतं तथा दहेत्
तदाश्रितान्गुणान्दग्ध्वा ततो देहं प्रदाहयेत्
शिखामध्यस्थितं विष्णुमानन्दरसनिर्भरम्
शिवाङ्गोत्पन्नकिरणैरमृतद्रवसंयुतैः
अनेन प्लावितं भूतग्रामं संचिन्तयेत्परम्
पूजां कर्तुं जप्यकर्मापि पश्चादेवं ध्यायेद्ब्रह्महत्यादिशुद्ध्यै
सदाशिवं दीपमध्ये विचिन्त्य पञ्चाक्षरेणार्चनमव्ययं तु
औदुंबरं राजतं स्वर्णपीठं वस्त्रादिच्छन्नं सर्वमेवेह पीठम्