सदा वनफलाहारसंतृप्ताय विशेषतः
इत्येतत्कथितं विप्र मारुतेः कवचं शिवम्
अष्टगन्धैर्विलिख्याथ कवचं धारयेत्तु यः
किं पुनर्बहुनोक्तेन साधितं लक्षमादरात्
प्रजप्तमेतत्कवचमसाध्यं चापि साधयेत्
यदुक्तं स्वासु रामेण आनन्दवनवासिना
मम श्रीरामचन्द्रस्य भक्तिरस्तु सदैव हि
चरितं सर्वपापघ्नं शृण्वतां पठतां सदा
रहस्यं रहसि स्वस्य ममानन्दवनोत्तमे
क्रीडन्ति सर्वदा चात्र प्राकट्ये ऽपि रहस्यपि
तदत्र प्रकटं तुभ्यं करोमि प्रीतमानसः
चतुर्यूहात्मकस्तकत्र तस्य भार्यात्रये मुने
विश्वामित्रोर्ऽथयामास पितरं मम भूपतिम्
प्रेषयामास धर्मात्मा सिद्धाश्रममरम्यकम्
ध्वस्तौ सुबाहुमारीचौ प्रसन्नो ऽभूत्तदा मुनिः
ततो गाधिसुतोधीमान् ज्ञात्वा भाव्यर्थमादरात्
तस्य कन्यां पणीभूतां सीतां सुरसुतोपमाम्
ततो मार्गे भृगुपतेर्दर्प्पमूढं चिरं स्मयन्
ततो राज्ञाहमाज्ञाय प्रजाशीलनमानसः
तच्छुत्वा सुप्रिया भार्या कैकैयी भूपतिं मुने
पुत्रो मे भरतो नाम यौवराज्ये ऽभिषिच्यताम्
तदाकर्ण्या हमुद्युक्तो ऽरण्यं भार्यानुजान्वितः
तत्र नित्यं वन्यफलैर्मांसैश्चावर्तितक्रियः
ततो भरतशत्रुघ्नौ भ्रातरौ मम मानदौ
व्यजिज्ञपतमागत्यपञ्चवट्यां निजाश्रमम्
ततस्त्रयोदशे वर्षे रावणो नाम राक्षसः
ततो ऽहं दीनवदन ऋष्यमूकं हि पर्वतम्
अथ वालिनमाहत्य सुग्रीव स्तत्पदे कृतः
विरुध्य रावणेनालं मम भक्तो विभीषणः
हत्वा तु रावणं संख्ये सपुत्रामात्यबान्धवम्