लक्ष्मणाङ्गमहाशक्तिजातक्षतविनाशिने
ऋक्षवानरवीरौघप्रासादाय नमोनमः
विषघ्नाय द्विषघ्नाय भयघ्नाय नमोनमः
परप्रेरितमन्त्राणां मन्त्राणां स्तंभकारिणे
बालार्कमण्डलग्रासकारिणे दुःखहारिणे
विहॄङ्गमाय शवाय वज्रदेहाय ते नमः
करस्थशैलशस्त्राय राम शस्त्राय ते नमः
दक्षिणाशाभास्कराय सतां चन्द्रोदयात्मने
स्वाम्याज्ञापार्थसंग्रामसख्यसंजयकारिणे
किल्किलावुवकाराय घोरशब्दकराय च
सदा वनफलाहारसंतृप्ताय विशेषतः
इत्येतत्कथितं विप्र मारुतेः कवचं शिवम्
अष्टगन्धैर्विलिख्याथ कवचं धारयेत्तु यः
किं पुनर्बहुनोक्तेन साधितं लक्षमादरात्
प्रजप्तमेतत्कवचमसाध्यं चापि साधयेत्
यदुक्तं स्वासु रामेण आनन्दवनवासिना
मम श्रीरामचन्द्रस्य भक्तिरस्तु सदैव हि
चरितं सर्वपापघ्नं शृण्वतां पठतां सदा
रहस्यं रहसि स्वस्य ममानन्दवनोत्तमे
क्रीडन्ति सर्वदा चात्र प्राकट्ये ऽपि रहस्यपि
तदत्र प्रकटं तुभ्यं करोमि प्रीतमानसः
चतुर्यूहात्मकस्तकत्र तस्य भार्यात्रये मुने
विश्वामित्रोर्ऽथयामास पितरं मम भूपतिम्
प्रेषयामास धर्मात्मा सिद्धाश्रममरम्यकम्
ध्वस्तौ सुबाहुमारीचौ प्रसन्नो ऽभूत्तदा मुनिः
ततो गाधिसुतोधीमान् ज्ञात्वा भाव्यर्थमादरात्
तस्य कन्यां पणीभूतां सीतां सुरसुतोपमाम्
ततो मार्गे भृगुपतेर्दर्प्पमूढं चिरं स्मयन्
ततो राज्ञाहमाज्ञाय प्रजाशीलनमानसः
तच्छुत्वा सुप्रिया भार्या कैकैयी भूपतिं मुने