लोकानुग्रहशीलाश्च सततं ते वहन्ति माम्
नषुंसकाः परस्त्रीषु ते वहन्ति च मां सदा
गोरक्षणपरा ये च सततं मां वहन्ति ते
अन्नोदकप्रदातारो वहॄन्ति सततं हि माम्
संप्राप्य पुत्रभावं ते साधयिष्ये मनोरथम्
दत्त्वा कण्ठगतां मालामभयं च तिरोदधे
प्रणम्य कमलाकान्तं पुनः स्वस्थआनमाव्रजत्
असूत समये पुत्रं सर्वलोकनमस्कृतम्
सुधाकलशदध्यन्नकरं वामनसंज्ञितम्
सर्वाभरणंसंयुक्तं पीताम्बरधरं हरिम्
प्रणम्य प्रञ्जलिर्भूत्व स्तोतुं समुपचक्रमे
नमोनमस्ते ऽमरनायकाय नमोनमो दैतेयविनाशनाय
नमोनमो दुर्जननाशनाय नमो ऽस्तु तस्मै जगदीश्वराय
सशार्ङ्गचक्रासिगदाधाराय नमो ऽस्तु तस्मै पुरुषोत्तमाय
नमो ऽस्तु सूर्याद्यमितप्रभाय नमोनमः पुण्यकथागताय
नमो ऽस्तु यज्ञाङ्गविराजिताय नमो ऽस्तु ते सज्जनवल्लभाय
नमो ऽस्तु ते दिव्यसुखप्रदाय नमो नमो भक्तमनोगताय
नमो ऽस्तु ते यज्ञवराहनाम्ने नमो हिरण्याक्षविदारकाय
नमो ऽस्तु ते रावणमर्दनाय नमो ऽस्तु ते नन्दसुताग्रजाय
स्मृतार्तिनाशिने तुभ्यं भूयो भूयो नमोनमः
यज्ञरुप यजद्रूप यज्ञाङ्गं त्वां यजाम्यहम्
उवाच प्रहसन्हर्षं वर्ध्दयन्कश्यपस्य सः
अचिरात्साधयिष्यामि निखिलं त्वन्मनोरथम्
अस्मिञ्जन्मन्यपि तथा सादयाम्युत्तमं सुखम्
आरेभे गुरुणा युक्तः काव्येन च मुनीश्वरैः
हविः स्वीकरणार्थाय ऋषिभिर्ब्रह्मवादिभिः
आमन्त्र्य मातापितरौ स बटुर्वामनो ययौ
हविर्भोक्तुमिवायातो बलेः प्रत्यक्षतो हरिः
यो भक्तियुक्तस्तस्यान्तः सदा संनिहितो हरिः
ज्ञात्वा नारायणं देवमुद्ययुः सभ्यसंयुताः