पातु प्रतीच्यामक्षघ्नः सौम्ये सागरतारकः
अधस्ताद्विष्णुभक्तस्तु पातु मध्ये च पावनिः
सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः
नेत्रे छायापहारी च पातु नः प्लवगेश्वरः
नासाग्रमञ्जनासूनुः पातु वक्त्रं हरीश्वरः
भुजौ पातु महातेजाः करौ च चरणायुधः
वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः
नाभिं श्रीरामभक्तस्तु कटिं पात्वनिलात्मजः
ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः
अचलोद्धारकः पातु पादौ भास्करसन्निभः
मुखाङ्गानि महाशूरः पातु रोमाणि चात्मवान्
स्थितं व्रजन्तमासीनं पिबन्तं जक्षतं कपिः
प्रमत्तमप्रमत्तं वा शयानं गहनेंऽबुनि
संग्रामे संकटे घोरे विराङ्रूपधरो ऽवतु
शयानं मां विभुः पातु पिशाचोरगराक्षसीः
साधकेन्द्रावनः शश्वत्पातु सर्वत एव माम्
स सर्वरूपः सर्वज्ञः सृष्टिस्थितिकरो ऽवतु
सूर्यमण्डलगः श्रीदः पातु कालत्रये ऽपि माम्
देवा मनुष्यास्तिर्यञ्चः स्थावरा जङ्गमास्तथा
यस्यानेककथाः पुण्याः श्रूयन्ते प्रतिकल्पके
वैधात्रधातृप्रभृति यत्किञ्चिद्दृश्यते ऽत्यलम्
यो विभुः सो ऽहमेषो ऽहं स्वीयः स्वयमणुर्बृहत्
तस्मै स्वस्मै च सर्वस्मै नतो ऽस्म्यात्मसमाधिना
समीरणात्मने तस्मै नतो ऽस्म्यात्मस्वरूपिणे
नमः श्रीरामभक्ताय श्यामाय महते नमः
संकाविदहनायाथ महासागरतारिणे
रावणान्तनिदानाय नमः सर्वोत्तरात्मने
अशोकवनविध्वंसकारिणे जयदायिने
वनपालशिरश्छेत्रे लङ्काप्रासादभञ्जिने
सौमित्रिजयदात्रे च रामदूताय ते नमः