सप्तरात्रेण लभते नष्टद्रव्यं न संशयः
देवासुरनिभं चापि परचक्रं निवारयेत्
विजयो जायते तस्य न कदाचित्पराजयः
स रोगमृत्युवेतालभूतप्रेतैर्न बाध्यते
त्रिदिनान्निगडादूद्ध्वो मुच्यते नात्र संशयः
असाध्यमपि सप्ताहात्साधयेन्मन्त्रवित्तमः
न दुष्टचौरव्याघ्राद्यैर्भयं स्यात्परिपन्थिभिः
न चासौ विषकृत्यादिरोगस्फोटैः प्रबाध्यते
सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः
द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत्
यः सेवते सदा विप्र श्रीमञ्चक्रावतारकम्
मयैतत्कवचं विप्र दत्तात्रेयान्मुनीश्वरात्
श्रुतं तुभ्यं निगदितं धारयस्वाखिलेष्टदम्
मोहविध्वंसनं जैत्रं मारुतेः कवचं शृणु
भूतप्रेतारिजं दुःखं नाशमेति न संशयः
आनन्दवनिकासंस्थं ध्यायन्तं स्वात्मनः पदम्
नमस्कृत्य तदादिष्टमासनं स्थितवान् पुरः
पृष्टं प्रोवाच राजेन्द्रः श्रीरामः स्वयमादरात्
मह्यं तत्ते प्रवक्ष्यामि न प्रकाश्यं हि कुत्रचित्
श्रीरामेणाञ्जनासूनासूनोर्भुक्तिमुक्तिप्रदायकम्
पातु प्रतीच्यामक्षघ्नः सौम्ये सागरतारकः
अधस्ताद्विष्णुभक्तस्तु पातु मध्ये च पावनिः
सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः
नेत्रे छायापहारी च पातु नः प्लवगेश्वरः
नासाग्रमञ्जनासूनुः पातु वक्त्रं हरीश्वरः
भुजौ पातु महातेजाः करौ च चरणायुधः
वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः
नाभिं श्रीरामभक्तस्तु कटिं पात्वनिलात्मजः
ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः
अचलोद्धारकः पातु पादौ भास्करसन्निभः