सम्यग्दशदिशो व्याप्य पालयन्तु च मां सदा
शेषाद्या मूर्तयो ऽष्टौ च विक्रमेणैव भास्वराः
मम सौख्यमसंबाधमारोग्यमपराजयः
वाञ्छाप्तिरतिकल्याणमवैषम्यमनामयम्
भयहानिर्यशः कान्तिर्विद्या ऋद्धिर्महाश्रियः
दीर्घायुष्यं मनोहर्षः सौकुमार्यमभीप्सितम्
संतु मे कार्तवीर्य्यस्य हैहयेन्द्रस्य कीर्तनात्
सर्वपापप्रशमनं सर्वोपद्रवनाशनम्
विजयार्थप्रदं नॄणां सर्वसंपत्प्रदं शुभम्
चौरैर्हृतं यदा पश्येत्पश्वादिधनमात्मनः
सप्तरात्रेण लभते नष्टद्रव्यं न संशयः
देवासुरनिभं चापि परचक्रं निवारयेत्
विजयो जायते तस्य न कदाचित्पराजयः
स रोगमृत्युवेतालभूतप्रेतैर्न बाध्यते
त्रिदिनान्निगडादूद्ध्वो मुच्यते नात्र संशयः
असाध्यमपि सप्ताहात्साधयेन्मन्त्रवित्तमः
न दुष्टचौरव्याघ्राद्यैर्भयं स्यात्परिपन्थिभिः
न चासौ विषकृत्यादिरोगस्फोटैः प्रबाध्यते
सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः
द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत्
यः सेवते सदा विप्र श्रीमञ्चक्रावतारकम्
मयैतत्कवचं विप्र दत्तात्रेयान्मुनीश्वरात्
श्रुतं तुभ्यं निगदितं धारयस्वाखिलेष्टदम्
मोहविध्वंसनं जैत्रं मारुतेः कवचं शृणु
भूतप्रेतारिजं दुःखं नाशमेति न संशयः
आनन्दवनिकासंस्थं ध्यायन्तं स्वात्मनः पदम्
नमस्कृत्य तदादिष्टमासनं स्थितवान् पुरः
पृष्टं प्रोवाच राजेन्द्रः श्रीरामः स्वयमादरात्
मह्यं तत्ते प्रवक्ष्यामि न प्रकाश्यं हि कुत्रचित्
श्रीरामेणाञ्जनासूनासूनोर्भुक्तिमुक्तिप्रदायकम्