मनुष्याः पशवो त्वृक्षवानरा वनगोचराः
गजास्तुरङ्गा गवया रासभाः शरभा वृकाः
शृगालाः शशकाः श्येना गुरुत्मन्तो विहॄङ्गमाः
उद्भिज्जाश्चाण्डजाश्चैव स्वेदजाश्च जरायुजाः
ये ऽस्मान्बाधितुमिच्छन्ति सेध्यासु च दिवा निशि
दूरादेव विनश्यन्तु विनष्टगतिपौरुषाः
मारणोत्सादनोन्मूलद्वेषमोहनकारकाः
ये चाततायिनो दुष्टा ये पापा गोप्यहारिणः
क्षेत्रवित्तादिहरणबन्धनादिभयप्रदाः
पीडाकरा ये सततं छिद्रमिच्छन्ति बाधितुम्
दूरादेव क्षयं यान्तु विनष्टबलसाहसाः
ये महाशनयो दीप्ता ये निर्घाताश्च दारुणाः
सूर्येन्दुकुजसौम्याश्च गुरुकाव्यशनैश्चराः
तिथयः संक्रमा मासा हायना युगनायकाः
निधयो ऋग्यजुःसामाथर्वाणश्चैव वह्नयः
विद्याश्चैव चतुःषष्टिभेदा या भुवनत्रये
ते संतु नः सदा सौम्याः सर्वकालसुखावहाः
कार्तवीर्यार्जुनो धन्वी राजेन्द्रो हैहयेश्वरः
दुःखहा चौरदमनो राजराजेश्वरः प्रभुः
राजचूडामणिर्योगी सप्तद्वीपाधिनायकः
यज्वा विप्रप्रियो विद्वान् ब्रह्मज्ञेयः सनातनः
सुकुमारो महावीरो मारीघ्नो मदिरेक्षणः
महाभागवतो धीमान्महाभयविनाशनः
जितेन्द्रियो जितारातिः स्वच्छन्दो ऽनन्तविक्रममः
सर्वशास्त्रकलाधरी विरजा लोकवन्दितः
विजयश्रीमहामान्यो जितारिर्मन्त्रनायकः
भद्रवादप्रियो वैद्यो विबुधो वरदो वशी
योगाढ्यः सर्वरोगघ्नो राजिताखिलभूतलः
सर्वायुधधरो ऽभीष्टप्रदः परपुरञ्जयः
सर्वज्ञाननिधिः सर्वसिद्ध्विदानकृतोद्यमः