स्वशङ्खनादसंत्रस्तान्सहस्रारसहस्रभृत्
कार्तवीर्य महावीर्य सर्वदुष्टविनाशन
किं त्वं स्वपिषि दुष्टघ्न किं तिष्टसि चिरायासि
ये चौरा वसुहर्तारो विद्विषो ये च हिंसकाः
दुर्हृदो दुष्टभू पाला दुष्टामात्याश्च पापकाः
सर्वस्वहारिणां ये च पञ्च मायाविनो ऽपरेः
ये ऽग्निदा गरदातारो वञ्चकाः शस्त्रपाणयः
व्याजकाः कुपथासक्ता ये च नानाभयप्रदाः
ते सर्वे कार्तवीर्यस्य महाशङ्खरवाहताः
ये दानवा महादित्या ये यक्षा ये च राक्षसाः
अपस्मारग्रहा ये च ये ग्रहाः पिशिताशनाः
गन्धर्वाप्सरसः सिद्धा ये च देवादियोनयः
महाव्याघ्रमहामेघा महातुरागरूपकाः
ऋक्षवाराहशुनकवानरोलूकमूर्तयः
नानारूपा महासत्त्वा नानाक्लेशसहस्रदाः
वातिकाः पैत्तिका घोरा श्लैष्मिकाः सान्निपातिकाः
स्कान्दा वैनायकाः क्रूरा ये च प्रमथगुह्यकाः
ऐकाहिका व्द्याहिकाश्च त्र्याहिकाश्च महाज्वराः
सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः
कूष्माण्डा जृंभिका भौमा द्रोणाः सान्निध्यवञ्चकाः
मनोबुद्वीन्द्रियहराः स्फोटकाश्च महाग्रहाः
दिवाचरा रात्रिचरा ये च संध्यासु दारुणाः
ते सर्वे कार्त्तवीर्यस्य धनुर्मुक्तशराहताः
ये सर्पा ये महानागा महागिरिबिलेशयाः
अनन्तशूलिकाद्याश्च दंष्ट्राविषमहाभयाः
महाविषजलौकाश्च वृश्चिका रुक्तपुच्छकाः
जलसर्पा जलव्याला जलग्राहाश्च कच्छपाः
जलजाः स्थलजाश्चैव कृत्रिमाश्च महाविषाः
नानाविषाश्च ये घोरा महोपविषसंज्ञकाः
ते सर्वे कार्तवीर्यस्य खङ्कसाहस्रदारिताः