परिरक्षतु मे दुःखध्वान्तसम्भेदभास्करः
महायोगीश्वरः पातु सर्वतो मम पद्मभृत्
प्रधानदेवतारूपाः पृथग्रथवरे स्थिताः
शुक्लमाल्यानुवसनाः सुलिप्ततिलकोज्ज्वलाः
स्वस्वदिक्षु स्थिताः पान्तु मामिन्द्राद्या महाबलाः
सर्वतो मां सदा पातुं सर्वशक्तिसमन्विताः
तेजोरूपाः स्थिताः पातुं वाञ्छासुखनद्रुमाः
व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम्
सुमुखो मे मुखं पातु कर्णौं व्याप्तजगत्त्रयः
नयनं पुंमडरीकाक्षगो नासिकां मे गुणाकरः
सर्वशास्त्रकलाधारी जिह्वां चिबुकमव्ययः
भुजौ दशास्यदर्पघ्नो हृदयं मे महाबलः
करौ सर्वार्थदः पातुकराग्राणि जगत्प्रियः
वीरशूरस्तु मे नाभिं पार्श्वौ मे सर्वदुष्टहा
ऊरू माहिष्मतीनाथो जानुनी वल्लभो भुवः
पातु सर्वायुधधरः सर्वाङ्गं सर्वमर्मसु
प्राणादिदशजीवेशान्सर्वशिष्टेष्टदो ऽवतु
अनुक्तमपि यत्स्थान शरीरान्तर्बहिश्च यत्
वज्रात्सारतरं चेदं शरीरं कवचावृतम्
बद्धेदं कवचं दिव्यमभेद्यं हैहयेशितुः
राजमार्गे महादुर्गे मार्गे चौरा दिसंकुले
संग्रामे शस्त्रसंघाते सिंहव्याघ्रनिषेविते
विवादे विपुलावर्ते समुद्रे च नदीतटे
सर्वस्वहरणे प्राप्ते प्राप्ते प्राणस्य संकटे
मारीदुःस्वप्नपीडासु क्लिष्टे विश्वासघातके
आधिव्याधिभये विघ्नज्वालोपद्रवके ऽपि च
आङ्गुतुकामानखिलानस्मद्वसुविलुंपकान्
स्वकरोद्धृतसाहस्रपाशबद्धान्सुदुर्जयान्
सृणिसाहस्रनिर्भिन्नान्सहस्रशरखण्डितान्
खड्ग साहस्रदलितान्सहस्रमुशलार्दितान्