उत्तमं गोघृतं प्रोक्तं मध्यमं महषीभवम्
आस्यरोगे सुगन्धेन दद्यात्तैलेन दीपकम्
सहस्रेण पलैर्दीपे विहिते च न दृश्यते
तदा सुदुर्लभमपि कार्य्यं सिद्ध्व्येन्न संशयः
स्तुतिप्रोयो महाविष्णुर्गणेश स्तपर्णप्रियः
तस्मात्तेषां प्रतोषाय विदध्यात्तत्तदादरात्
त्वया मह्यं समाख्यातं विधानं तन्त्रगोपितम्
कवचे श्रोतुमिच्छामि तद्वदस्वकृपानिधे
कार्तवीर्यस्य येनासौ प्रसन्नः कार्यसिद्धिकृत्
भास्वद्ध्वजपताकाढ्ये तुरगायुतभूषिते
समुद्धृतमहाछत्त्रवितानितवियत्पथे
सुस्थितं विपुलोदारं सहस्रभुजमण्डितम्
किरीटहारमुकुटकेयूरवलयाङ्गदैः
भूषितं विविधाकल्पैर्भास्वरैः सुमहाधनैः
धनुर्ज्या सिंहनादेन कंपयन्तं जगत्त्रयम्
सर्वसंपत्प्रदातारं विजयश्रीनिषेवितम्
दिव्यमाल्यानुलेपाढ्यं सर्वलक्षणसंयुतम्
वरदं चक्रवर्तीनं सर्वलोकैकपालकम्
महायोगभवैश्वर्यकीर्त्याक्रान्तजगत्त्रयम्
सम्यगात्मादिभेदेन ध्यात्वा रक्षामुदीरयेत्
अग्नीशासुरवायव्यकोणेषु हृदयादिकाः
अव्याहतबलैश्वर्यशक्तिसामर्थ्यविग्रहाः
प्राचीं दिशं रक्षतु मे बाणबाणासनायुधः
शरचापधरः श्रीमान् दिशं मे पातु दक्षिणाम्
महेषुचापधृक्पातु मम प्राचेतसीं दिशम्
परिरक्षतु मे सम्यग्विदिशं चैत्रभानवीम्
पातु मे नैरृतीं चापपाणिर्विदिशमीश्वरः
इष्वासनेषुधृक्पातु विदिशं मम वायवीम्
चापेषुधारी शैवीं मे विदिशं परिरक्षतु
दिशमूर्द्ध्वामवतु मे सर्वदुष्टभयङ्करः