दत्तात्रेयो मुनिर्मालामन्त्रस्य परिकीर्तितः
चामुण्डया षडङ्गानि चरेत्षड्दीर्घयुक्तया
गोविन्दाढ्यो हली सेंदुश्चामुण्डाबीजमीरितम्
तारो ऽनन्तो बिन्दुयुक्तो मायास्वं वामनेत्रयुक्
ऋषिः पूर्वोदितोनुष्टुप्छन्दो ऽन्यत्पूर्ववत्पुनः
एवं दीपप्रदानस्य कर्ताप्नोत्यखिले ऽप्सितम्
विप्रस्य दर्शनं तत्र शुभदं परिकीर्तितम्
आख्वोत्वोर्दर्शनं दुष्टं गवाश्वस्य सुखावहम्
शब्दा भयदा कर्तुरुज्ज्वला सुखदा मता
कृते दीपे यदा पात्रं भग्नं दृश्यते दैवतः
वर्त्यतरं यदा कुर्यात्कार्यं सिद्ध्येद्विलंबतः
अशुचिस्पर्शने व्याधिर्दीपनाशे तु चौरभीः
पात्रारंभे वसुपलैः कृतो दीपो ऽखिलेष्टदः
आसमाप्तेः प्रकुर्वीत ब्रह्मचर्यं च भूशयः
जपेत्सहस्रं प्रत्येकं मन्त्रराजं नवाक्षरम्
एकपादेन दीपाग्रे स्थित्वा यो मन्त्रनायकम्
समाप्य शोभनदिने संभोज्य द्विजसत्तमान्
कर्ता तु दक्षिणां दद्यात्पुष्कलां तोषहेतवे
गुर्वाज्ञया स्वयं कुर्याद्यदि वा कारये द्गुरुः
गुर्वाज्ञामन्तरा कुर्याद्यो दीपं स्वेष्टसिद्धये
उत्तमं गोघृतं प्रोक्तं मध्यमं महषीभवम्
आस्यरोगे सुगन्धेन दद्यात्तैलेन दीपकम्
सहस्रेण पलैर्दीपे विहिते च न दृश्यते
तदा सुदुर्लभमपि कार्य्यं सिद्ध्व्येन्न संशयः
स्तुतिप्रोयो महाविष्णुर्गणेश स्तपर्णप्रियः
तस्मात्तेषां प्रतोषाय विदध्यात्तत्तदादरात्
त्वया मह्यं समाख्यातं विधानं तन्त्रगोपितम्
कवचे श्रोतुमिच्छामि तद्वदस्वकृपानिधे
कार्तवीर्यस्य येनासौ प्रसन्नः कार्यसिद्धिकृत्
भास्वद्ध्वजपताकाढ्ये तुरगायुतभूषिते