स्वर्णजं रजतोत्थं वा ताम्रजं तदभावतः
शान्तये मुद्गचूर्णोत्थं संधौ गोधूमचूर्णजम्
आज्ये ऽयुतपले पात्रं पलपञ्चशता स्मृतम्
त्रिसाहस्री घृतपले शर्करापलभाजनम्
शते ऽक्षिचरसंश्यातमेवमन्यत्र कल्पयेत्
एवं पात्रं प्रतिष्ठाप्य वर्तीः सूत्रोत्थिताः क्षिपेत्
तिथिमानादासहस्रं तन्तुसंख्या विनिर्मिता
सहस्रपलसंख्यादिदशांशं कार्यगौरवात्
तदर्द्धां वा तदर्द्धां वा सूक्ष्माग्रां स्थूलमूलिकाम्
पात्रदक्षिणदिग्देशे मुक्त्वां गुलचतुष्टयम्
दीपं प्रज्वालयेत्तत्र गणेशस्मृतिपूर्वकम्
तण्डुलाष्टदले वापि विधिवत्स्थापयेद्धूटम्
जलाक्षतान्समादाय दीपं संकल्पयेत्ततः
प्रणवः पाशमाये च शिखा कार्ताक्षराणि च
बाहवे इति वर्णान्ते सहस्रपदमुच्चरेत्
आत्रेयायानुसूयान्ते गर्भरत्नाय तत्परम्
दीपं गृहाण अमुकं रक्ष रक्ष पदं पुनः
शत्रून् जहिद्वयं माया तारः स्वं बीजमात्मभूः
भिमुखेनामुकं रक्ष अमुकान्ते वरप्रद
वेदादिकामचामुण्डाः स्वाहा तु पूसबिन्दुकौ
दत्तात्रेयो मुनिर्मालामन्त्रस्य परिकीर्तितः
चामुण्डया षडङ्गानि चरेत्षड्दीर्घयुक्तया
गोविन्दाढ्यो हली सेंदुश्चामुण्डाबीजमीरितम्
तारो ऽनन्तो बिन्दुयुक्तो मायास्वं वामनेत्रयुक्
ऋषिः पूर्वोदितोनुष्टुप्छन्दो ऽन्यत्पूर्ववत्पुनः
एवं दीपप्रदानस्य कर्ताप्नोत्यखिले ऽप्सितम्
विप्रस्य दर्शनं तत्र शुभदं परिकीर्तितम्
आख्वोत्वोर्दर्शनं दुष्टं गवाश्वस्य सुखावहम्
शब्दा भयदा कर्तुरुज्ज्वला सुखदा मता
कृते दीपे यदा पात्रं भग्नं दृश्यते दैवतः