स्ववाग्भवाभ्यां नवमो वर्मास्त्राभ्यामथान्तिमः
मन्त्रे तु दशमे वर्णा नववर्मास्त्रमध्यगाः
एषामाद्ये विराट्छदो ऽन्येषु त्रिष्टुबुदाहृतम्
तदादिमः शिवार्णः स्यादन्ये तु द्वादशाक्षराः
एवं विंशतिमन्त्राणां यजनं पूर्ववन्मतम
तारो हृत्कार्तवीर्यार्जुनाय वर्मास्त्रठद्वयम्
भूनेत्रसमनेत्राक्षिवर्णेरस्याङ्गपञ्चकम्
वर्मास्त्राग्निप्रियामन्त्रः प्रोक्तो ह्यष्टादशार्णकः
नमो भगवते श्रीति कार्तवीर्यार्जुनाय च
परिपालितसप्तान्ते द्वीपाय सर्वरापदम्
सहस्रदहनप्रान्ते वर्मास्त्रान्तो महामनुः
राजन्यक्रवर्ती च वीरः शूरस्तृतीयकः
रेवांबुपरितृप्तश्च काणो हस्तप्रबाधितः
सिंच्यमानं युवतिभिः क्रीडन्तं नर्मदाजले
एवं ध्यात्वायुतं मन्त्रं पजेदन्यत्तु पूर्ववत्
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्
लभ्यते मन्त्रवर्यो ऽयं द्वात्रिंशद्वर्णसंयुतः
कार्तवीर्याय शब्दान्ते विद्महे पदमुञ्चरेत्
तन्नोर्ऽजुनः प्रवर्णान्ते चोदयात्पदमीरयेत्
अनुष्टुभं मनुं रात्रौ जपतां चौरसंचयाः
अथो दीपविधिं वक्ष्ये कार्तवीर्यप्रियङ्करम्
माघफाल्गुनयोर्मासोर्दीपारंभं समाचरेत्
हस्तोत्तराश्विरौद्रेयपुष्यवैष्णववायुभे
चरमे च व्यतीपाते धृतौ वृद्धौ सुकर्मणि
करणे विष्टिरहिते ग्रहणे ऽर्द्धोदयादिषु
कार्तिके शुक्लसप्तम्यां निशीथे ऽतीव शोभनः
अत्यावश्यककार्येषु मासादीनां न शोधनम्
प्रातः स्नात्वा शुद्धभूमौ लिप्तायां गोमयोदकैः
षट्कोणं रचयेद्भूमौ रक्तचन्दनतण्डुलैः
नवार्णैर्वेष्टयेत्तञ्च त्रिकोणं तद्बहिः पुनः