दुष्टनाशं दुःखनाशं दुरितापद्विनाशकम्
क्षेमङ्करी वश्यकरी श्रीकरी च यशस्करी
धनकर्यष्टमी पश्चाल्लोकेशा अस्त्रसंयुताः
कार्तवीर्यार्जुनस्याथ पूजायन्त्रमिहोच्यते
तारादिवर्मान्तदलं शेषवर्णदलान्तरम्
कोणालङ्कृतभूतार्णभूगृहं यन्त्रमीशितुः
तत्र कुंभं प्रतिष्ठाप्य तत्रावाह्यार्चयेन्नृपम्
अभिषिं चेत्तदंभोभिः प्रियं सर्वेष्टसिद्धये
वाक्सिद्धिं सुदृशः कुम्भाभिषिक्तो लभते नरः
संस्थापंयेदिदं यन्त्रं शत्रुभीतिनिवृत्तये
धत्तूरैः स्तभ्यते निम्बैर्द्वेष्यते वश्यतेंऽबुजैः
कटुतैलमहिष्याज्यैर्हेमद्रव्याञ्जनं स्मृतम्
तिलतण्डुलसिद्धार्थजालैर्वश्यो नृपो भवेत्
स्त्रीवश्यकृत्प्रियङ्गूणां मुराणां भूतशान्तिदः
समिधो लभते हुत्वा पुत्रानायुर्द्धनं सुखम्
रोचनागोमयैस्तंभो भूप्राप्तिः शालिभिर्हुतैः
प्रकल्पनीया मन्त्रज्ञैः कार्य्यगौरवलाघवात्
कार्तवीर्यार्जुनं ङेंतं सर्वमन्त्रेषु योजयेत्
आद्यबीजद्वयेनासौ द्वितीयो मन्त्र ईरितः
स्वपाशाभ्यां पञ्चमो ऽसौ षष्टः स्वेन च मायया
स्ववाग्भवाभ्यां नवमो वर्मास्त्राभ्यामथान्तिमः
मन्त्रे तु दशमे वर्णा नववर्मास्त्रमध्यगाः
एषामाद्ये विराट्छदो ऽन्येषु त्रिष्टुबुदाहृतम्
तदादिमः शिवार्णः स्यादन्ये तु द्वादशाक्षराः
एवं विंशतिमन्त्राणां यजनं पूर्ववन्मतम
तारो हृत्कार्तवीर्यार्जुनाय वर्मास्त्रठद्वयम्
भूनेत्रसमनेत्राक्षिवर्णेरस्याङ्गपञ्चकम्
वर्मास्त्राग्निप्रियामन्त्रः प्रोक्तो ह्यष्टादशार्णकः
नमो भगवते श्रीति कार्तवीर्यार्जुनाय च
परिपालितसप्तान्ते द्वीपाय सर्वरापदम्