जप्तो ऽयं मदनक्षोभं नाशयत्येव निश्चितम्
अथ मन्त्रातरं वाक्ष्ये भूतविद्रावणं परम्
पवनो वनपुत्रान्ते आवेशिद्वयमीरयेत्
ब्रह्मा मुनिः स्याद्गायत्री छन्दो ऽत्र देवता पुनः
षड्दीर्घाढ्येन बीजेन षडङ्गानि समाचरेत्
पारिजातद्रुमूलस्थं चिन्तयेत्साधकोत्तमः
त्रिमध्वक्तैर्यञ्जत्पीठे पूर्वोक्तेपूर्ववत्सुधीः
आक्रन्दंस्तं विमुच्याथ ग्रहः शीघ्रं पलायते
परीक्षिताय शिष्याय देया वा निजसूनवे
विशेषतः समाराध्य यथोक्तं फलमाप्नुयात्
जायन्ते ऽथ प्रलीयन्ते स्वस्वकर्मानुसारतः
समुल्लङ्घ्य नृपानन्यानेतन्मे नुद संशयम्
यथा सेव्यत्वमापन्नः कार्तवीर्यार्जुनो भुवि
दत्तात्रेयं समाराध्य लब्धवांस्तेज उत्तमम्
शत्रूञ्जयति संग्रामे नष्टं प्राप्नोति सत्वरम्
तुभ्यं प्रकाशयिष्ये ऽहं सर्वसिद्धिप्रदायकम्
वेधाधरेन्दुशान्त्याढ्यो निद्रयाशाग्नि बिन्दुयुक्
रेफोवा द्यासनो ऽनन्तो वह्निजौ कर्णसंस्थितौ
ऊनर्विशतिवर्णो ऽयं तारादिर्नखवर्णकः
कार्तवीर्यार्जुनो देवो बीजशक्तिर्ध्रुवश्च हृत्
शान्तियुक्तचतुर्थेन कामाद्येन शिराःएंऽगकम्
शिखामङ्कुशपद्माभ्यां सवाग्भ्यां वर्म विन्यसेत्
हृदये जठरे नाभौ जठरे गुह्यदेशतः
विन्यसेद्बीजदशकं प्रणवद्वयमध्यगम्
भ्रुवोः श्रुत्योस्तथैवाक्ष्णोर्नसि वक्त्रे गलेंऽसके
सर्वेष्टसिद्धये ध्यायेत्कार्तवीर्यं जनेश्वरम्
दोर्भिः पञ्चाशता दक्षैर्बाणान्वामैर्धनूंषि च
चक्रावतारं श्रीविष्णोर्ध्यायेदर्जुनभूपतिम्
सतण्डुलैः पायसेन विष्णुपीठे यजत्तुतम्
चौरमदविभञ्जनं मारीमदविभञ्जनम्