न जानन्ति परं भावं तं वन्दे सर्वनायकम्
प्रमाणातीतसद्भावस्तं वन्दे ज्ञानसाक्षिणम्
ऊर्वोर्वैश्यः समुत्पन्नः पद्यां शूद्रो ऽभ्यजायत
मुखादग्निस्तर्थेन्द्रश्च प्राणाद्वायुरजायत
षडङ्गरुपिणे तुभ्यं भूयोभूयो नमो नमः
त्वमग्निर्निरृतिश्चैव वरुणस्त्वं दिवाकरः
गिरयः सिद्धगन्धर्वानद्यो भूमिश्च सागराः
त्वद्रूपमखिलं देव तस्मान्नित्यं नमो ऽस्तु ते
दैतेयैर्बाधितान्पुत्रान्मम पाहि जनार्दन
उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी
अकण्टकां श्रियां देहि मत्सुतानां दिवौकसाम्
अज्ञातं किं तव श्रीश किं मामीहयसि प्रभो
वृथापुत्रास्मि देवेश दैतेयैः परिपीडिता
तानहत्वा श्रियं देहि मत्सुतेभ्यः सुरेश्वर
उवाच हर्षयन्विप्र देवमातरमादरात्
यतः सपन्तिपुत्रेषु वात्सल्यं देवि दुर्लभम्
तेषां संपद्वरा पुत्रा न हीयन्ते कदाचन
न तस्य पुत्रशोकः स्यादेष धर्मः सनातनः
असंख्याताण्डरोमाणं सर्वेशं सर्वकारणम्
तमहं देवदेवेशं धारयाम किथं प्रभो
धारयामि कथं देव त्वामहं पुरुषोत्तमम्
मुच्यते स कथं देवोग्राम्येषु जनिमर्हति
तथायमपि को वेद तव विश्वेश चेष्टितम्
त्वामेव चिन्तये देव यथेच्छासि तथा कुरु
दत्त्वाभयं देवमातुरिदं वचनमब्रवीत्
तथापि शृणु वक्ष्यामि गुह्याद्गुह्यतरं शुभे
वंहति सततं तें मां गतासूया अदाम्भिकाः
मत्कथाश्रवणासक्ता वहन्ति सततं हि माम्
वहन्ति सततं देवि स्त्रियो ऽपि त्यक्तप्रत्सराः
हितकृद्वाह्यणानां यः स मां वहति सर्वदा