दध्योदनेन नैवेद्यं दद्यात्साधकसत्तमः
एवं कृते तु नष्टानां महिषीणां गवामपि
चौरादिदुष्टसत्त्वानां सर्पादीनां भये पुनः
पूर्वद्वारे गजः स्थाप्यो दक्षिणे महिषस्तथा
एवं क्रमेण खड्गं च क्षुरिकादण्डमुद्गरान्
कृत्वा डमरुहस्तां च चकिताक्षीं प्रयत्नतः
जातीपुष्पैस्तु संपूज्य शुद्धधूप प्रकल्पयेत्
गगनं दीपिकेन्द्वाढ्यां शास्त्रं च पुरतो जपेत्
अनयोर्भौंमवारे तु कुर्यादारंभमादरात्
कृत्वा तदन्तरे तालमीष्टन्नम्रं समालिखेत्
वामहस्तेन तालाग्रं दक्षिणे ज्ञानमुद्रिका
चतुरस्र विधायाथ तन्मध्ये मूर्तिमालिखेत्
तोयेन स्नानगन्धादि यथासंभवमर्पयेत्
किलिद्वयं जपं प्रोक्तमेवं कुर्याद्दिने दिने
श्यामपाषाणखण्डेन लिखित्वा भूपतेर्गृहम्
अन्योन्यपुच्छ रिधित्रययुक्तां हनूमतः
जटामांसीभवं धूपं तैलाक्तघृतदीपकम्
ध्येयो दक्षिणहस्तेन रोटिकां भक्षयन्हरिः
प्नारयन्भ्रुकुटीं बद्ध्वा भीषयन्मथयन्स्थितः
एवं कृतविधानेन परसैन्यं विनाशयेत्
प्रायोगा बहवस्तत्र संक्षेपाद्गदिता मया
तस्यासाध्यं न वै किञ्चिद्विद्यते भुवनत्रये
अविनीताय शिष्याय पिशुनाय कदाचन
बहुना किमिहोक्तेन सर्वं दद्यात्कपीश्वरः
तारो नमो हनुमते जाठरत्रयमीरयेत्
आत्मतत्त्वं ततः पश्चात्प्रकाशययुगं ततः
वसिष्ठो ऽस्य मुनिश्छन्दो ऽनुष्टुप् च देवताः पुनः
मन्त्रार्णैश्च षडङ्गानि कृत्वा ध्यायेत्कपीश्वरम्
अध्यात्मचित्तमासीनं कदलीवनमध्यगम्
ध्यात्वैवं प्रजपेल्लक्षं दशांशं जुहुयात्तिलैः