अनेन दीपवर्येण उदङ्मुखगतेन वै
त्रयोदशैवं द्रव्याणि गोमयं मृत्तिका मसी
कस्तूरिका दधि क्षीरं नवनीतं घऋतं तथा
पश्चाद्विनष्टद्रव्याप्तौ माहिषं गोमयं स्मृतम्
बालादिरक्षणे चैव चौरादिभयनाशने
भूमिस्पृष्टं न तद्ग्राह्यमन्तरिक्षाञ्च भाजने
तत्र गोपीचन्दनं तु हरितालं च गौरिकम्
कृत्वा गोपीचदंनेन चतुरस्रं गृहं सुधीः
बीजं क्रोधाञ्च तत्पुच्छं लिखेन्मन्त्री समाहितः
शतपत्रसमो धूपः शालनिर्याससंभवः
दध्योदनेन नैवेद्यं दद्यात्साधकसत्तमः
एवं कृते तु नष्टानां महिषीणां गवामपि
चौरादिदुष्टसत्त्वानां सर्पादीनां भये पुनः
पूर्वद्वारे गजः स्थाप्यो दक्षिणे महिषस्तथा
एवं क्रमेण खड्गं च क्षुरिकादण्डमुद्गरान्
कृत्वा डमरुहस्तां च चकिताक्षीं प्रयत्नतः
जातीपुष्पैस्तु संपूज्य शुद्धधूप प्रकल्पयेत्
गगनं दीपिकेन्द्वाढ्यां शास्त्रं च पुरतो जपेत्
अनयोर्भौंमवारे तु कुर्यादारंभमादरात्
कृत्वा तदन्तरे तालमीष्टन्नम्रं समालिखेत्
वामहस्तेन तालाग्रं दक्षिणे ज्ञानमुद्रिका
चतुरस्र विधायाथ तन्मध्ये मूर्तिमालिखेत्
तोयेन स्नानगन्धादि यथासंभवमर्पयेत्
किलिद्वयं जपं प्रोक्तमेवं कुर्याद्दिने दिने
श्यामपाषाणखण्डेन लिखित्वा भूपतेर्गृहम्
अन्योन्यपुच्छ रिधित्रययुक्तां हनूमतः
जटामांसीभवं धूपं तैलाक्तघृतदीपकम्
ध्येयो दक्षिणहस्तेन रोटिकां भक्षयन्हरिः
प्नारयन्भ्रुकुटीं बद्ध्वा भीषयन्मथयन्स्थितः
एवं कृतविधानेन परसैन्यं विनाशयेत्