नित्ये पञ्चपलं प्रोक्तमथवा मानसी रुचिः
शिवालये ऽथवा कुर्यान्नित्यनैमित्तिके स्थले
विशेषो ऽस्त्यत्र यः कश्चिन्मारुते रुच्यते मया
चतुष्पथे तथा प्रोक्तं षट्सु दीपप्रदापनम्
नानाभोगश्रियै प्रोक्तं दीपदानं हनूमतः
विषव्याधिभये घोरे हनुमत्सन्निधौ स्मृतम्
चतुष्पथे व्याधिनष्टौ दुष्टदृष्टौ तथैव च
अश्वत्थवटमूले तु सर्वकार्यप्रसिद्धये
द्यूते दृष्टिस्तंभने च विद्वेषे मारणे तथा
विषे व्याधौ ज्वरे भूतग्रहे क्रृत्याविमोचने
क्रूरसत्त्वेषु सर्वेषु शश्वदून्धविमोक्षणे
आगमे निर्गमे चैव राजद्वारे प्रकीर्तितम्
दीपदानं हनुमतो नात्र कार्या विचारणा
लघुमानं स्मृतं पञ्च सप्त वा नव वा तथा
प्रतिमाकरणं प्रोक्तं मारुतेर्दीपदापने
दक्षिणाभिमुखं वीरं कृत्वा केसरिविक्रमम्
लिखेद्भित्तौ पटे वापि पीठे वा मारुतेः शुभे
नित्यदीपः प्रकर्त्तव्यो द्वादशाक्षरविद्यया
षष्ट्यादौ च द्वितीयादाविमं दीपमितीरयेत्
कूटादौ नित्यदीपे च मन्त्रं सूर्याक्षरं वदेत्
गोमयेनोपलिप्तायां भूमौ तद्गतमानसः
कमलं च लिखेद्भद्रं तत्र दीपं निधापयेत्
कूटषट्कं च षट्कोणे अन्तराले परलिखेत्
सौम्यं मध्यगतं लेख्यं तत्र संपूज्य मारुतिम्
वसुपत्रे क्रमात्पूज्या अष्टावेते च वानराः
नीलायाथो जांबवते प्रहस्ताय तथैव च
आदावञ्जनापुत्राय ततश्च रुद्रमूर्तये
रामदूताय ब्रह्मास्त्रनिवारणाय तत्परम्
कुशोदकं समादाय दीपमन्त्रं समुञ्चरेत्
तं मन्त्रं कूटधा जप्त्वा जलं भूमौ विनिक्षिपेत्