क्रमेणैतेन ते ज्ञेयाः पात्रे षट्कर्मसंभवे
सौगन्धे नैव मानं स्यात्तद्यथारुचि संमतम्
सोमवारे गृहीत्वातद्ध्वान्यं तोयप्लुतं धरेत्
तत्पिष्टं शुद्धपात्रे तु नदीतोयेन पिण्डितम्
दीपपात्रे ज्वाल्यमाने मारुतेः कवचं पठेत्
मालामनूनां ये वर्णाः साध्यनामसमन्विताः
तत्त्रिंशांशेन वा ग्राह्या गुरुकार्ये ऽखिलाढ्यता
रुद्राः कूटगणाः प्रोक्ता न पात्रे नियमो मतः
रक्तसूत्रं हनुमतो दीपदाने प्रकीर्तितम्
कूटतुल्यपलं तैलं गुरुकार्ये शिवैर्गुणम्
नित्ये पञ्चपलं प्रोक्तमथवा मानसी रुचिः
शिवालये ऽथवा कुर्यान्नित्यनैमित्तिके स्थले
विशेषो ऽस्त्यत्र यः कश्चिन्मारुते रुच्यते मया
चतुष्पथे तथा प्रोक्तं षट्सु दीपप्रदापनम्
नानाभोगश्रियै प्रोक्तं दीपदानं हनूमतः
विषव्याधिभये घोरे हनुमत्सन्निधौ स्मृतम्
चतुष्पथे व्याधिनष्टौ दुष्टदृष्टौ तथैव च
अश्वत्थवटमूले तु सर्वकार्यप्रसिद्धये
द्यूते दृष्टिस्तंभने च विद्वेषे मारणे तथा
विषे व्याधौ ज्वरे भूतग्रहे क्रृत्याविमोचने
क्रूरसत्त्वेषु सर्वेषु शश्वदून्धविमोक्षणे
आगमे निर्गमे चैव राजद्वारे प्रकीर्तितम्
दीपदानं हनुमतो नात्र कार्या विचारणा
लघुमानं स्मृतं पञ्च सप्त वा नव वा तथा
प्रतिमाकरणं प्रोक्तं मारुतेर्दीपदापने
दक्षिणाभिमुखं वीरं कृत्वा केसरिविक्रमम्
लिखेद्भित्तौ पटे वापि पीठे वा मारुतेः शुभे
नित्यदीपः प्रकर्त्तव्यो द्वादशाक्षरविद्यया
षष्ट्यादौ च द्वितीयादाविमं दीपमितीरयेत्
कूटादौ नित्यदीपे च मन्त्रं सूर्याक्षरं वदेत्