सम्पातसाधितं यन्त्रं भुजे वा मूर्ध्नि धारयेत्
ग्रहैर्विघ्नैर्विषैः शस्त्रैश्चौरैर्नैवाभिभूयते
षड्दीर्घयुक्तं गगन वह्न्याख्यं तारसंपुटम्
प्रणवो वज्रकायेति वज्रतुण्डेति संपठेत्
बलरक्तमुखान्ते तु तडिज्जिह्व महा ततः
महदृढप्रहारेण लङ्केश्वरवधात्ततः
शैलप्रवाह गगनेचर एह्येहि संवदेत्
भैरवाज्ञापयैह्येहि महारौद्रपदं ततः
जंभयद्वयमाभाष्य वर्मास्त्रान्तो मनुर्मतः
मालामन्त्राष्टार्णयोश्च मुन्याद्यर्चा तु पूर्ववत्
एवं यो भजते मन्त्री वायुपुत्रं कपीश्वरम्
धनं धान्यं सुतान्पौत्रान्सौभाग्यमतुलं यशः
वश्याद्यानि च कर्माणि संगरे विजयं तथा
उपासितोंऽजनागर्भसंभूतः प्रददात्यलम्
यस्य विज्ञानमात्रेण सिद्धो भवति साधकः
द्रव्यस्य च प्रमाणं वै तत्तु मानमनुक्रमात्
पुष्पवासिततैलेन सर्वकामप्रदं मतम्
अतसीतैलमुद्दिष्टं वश्यकर्मणि निश्चितम्
मारणे राजिकोत्थं वा विभीतकसमुद्भवम्
अलाभे सर्वतैलानां तिलजं तैलमुत्तमम्
पञ्चधान्यमिदं प्रोक्तं नित्यदीपं तु मारुतेः
सर्वकामप्रदं प्रोक्तं सर्वदा दीपदानके
उञ्चाटने कृष्णतिलपिष्टजं च प्रकीर्तितम्
मोहने त्वाढकीजात विद्वेषे च कुलत्थजम्
संधौ त्रिपिष्टजं लक्ष्मीहेतोः कस्तूरिकाभवम्
कन्याप्राप्त्यै तथा राजवंश्ये सख्ये तथैव च
अष्टमुष्टिर्भवेत्किञ्चित्किञ्चिदष्टौ चः पुष्कलम्
चतुराढको भवेद्द्रोणः खारी द्रोणचतुष्टयम्
अथवान्यप्रकारेण मानमत्र निगद्यते
चतुर्भिः कुडवैः प्रस्थस्तैश्चतुर्भिस्तथाढकः