सद्याचितं वायुयुग्मं हनूमन्तेति चोद्धरेत्
धग्गन्ते धगितेत्युक्त्वा आयुरास्व पदं ततः
मुन्यादिकं तु पूर्वोक्तं प्लीहरोगहरो हरिः
नागवल्लीदलं स्थाप्यमुपर्याच्छादयेत्ततः
शकलं वंशजं तस्योपरि मुञ्चेत्कपिं स्मरेत्
बदरीभूरुहोत्थां तां मन्त्रेणानेन सप्तधा
सप्तकृत्वः प्लीहरोगो नाशमायाति निश्चितम्
अमुकस्य शृङ्खलां त्रोटयद्वितयमीरयेत्
ईश्वरो ऽस्य मुनिश्छन्दो ऽनुष्टुप्च देवता पुनः
हं बीजं ठद्वयं शक्तिर्बन्धमोक्षे नियोगता
वामे शैलं वैरिभिदं विशुद्धं टङ्कमन्यतः
एवं ध्यात्वा जपेल्लक्षदशांशं चूतपल्लवैः
महाकारागृहे प्राप्तो ह्ययुतं प्रजपेन्नरः
यन्त्रं चास्य प्रवक्ष्यामि बन्धमोक्षकरं शुभम्
षट्कोणेषु ध्रुवं ङेंतमाञ्जनेयपदं लिखेत्
गोरोचनाकुङ्कुमेन लिखित्वा यन्त्रमुत्तमम्
यन्त्रमेतल्लिखित्वा तु मृत्तिकोपरि मार्जयेत्
एवं कृते महाकारागृहान्मन्त्री विमुच्यते
तोयं शशेषे मकरे परिमुञ्चति मुञ्चति
इमं मन्त्रं दक्षकरे लिखित्वा वामहस्ततः
त्रिसप्ताहात्प्रबद्धो ऽसौ मुच्यते नात्र संशयः
लक्षं जपो दशांशेन शुभैर्द्रव्यैश्च होमयेत्
गन्धाष्टकैर्लिखेद्वूपं कपिराजस्य सुन्दरम्
तेन मन्त्राभिजप्तेन शिरोबद्ध्वेन भूमिपः
चन्द्रसूर्यो परागादौ पूर्वोक्तं लेखयेद्ध्वजे
मातृकां जापयेत्पश्चाद्दशांशेन च होमयेत्
गजे ध्वजं समारोप्य गच्छेद्युद्ध्वाय भूपतिः
महारक्षाकरं यन्त्रं वक्ष्ये सम्यग्धनूमतः
दले ऽष्टकोणमालिख्य मालामन्त्रेण वेष्टयेत्
लिखितं स्वर्णलेखन्या भूर्जपत्रे सुशोभने