प्रातः स्नात्वा नदीतीरे उपविश्य कुशासने
पुष्पाञ्जल्यष्टकं दत्वा ध्यात्वा रामं ससीतकम्
कुचन्दनेन घृष्टेन संलिखेत्तच्छलाकया
मूर्तिं मूलेन संकल्प्य ध्यात्वा पाद्यादिकं चरेत्
केसरेषु षडङ्गानि दलेषु च ततोर्ऽचयेत्
जांबवन्तं च कुमुदं केसरीशं दलेर्ऽचयेत्
एवं सिद्धे मनौ मन्त्री साधयेत्स्वेष्टमात्मनि
साधयेत्साधक श्रेष्ठो भूमिग्रहणपूर्वकम्
दिग्बन्ध नादिकं कृत्वा न्यासध्यानादिपूर्वकम्
लक्षान्ति दिवसं प्राप्य कुर्य्याञ्च पूजनं महत्
दिवारात्रौ जपं कुर्याद्यावत्संदर्शनं भवेत्
सुप्रसन्नस्ततो भूत्वा प्रयाति साधकाग्रतः
वरं लब्ध्वा साधकन्द्रो विहरेदात्मनः सुखैः
प्रकाशितं रहस्यं वै देवानामपि दुर्लभम्
वियदिन्दुयुतं पश्चान्ङेंतं पवननन्दनम्
मुन्यादिकं च पूर्वोक्तं षडङ्गान्यपि पूर्ववत्
धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम्
गुरुं च क्रोधमुत्पाद्य ग्रहोतुं गुरुपर्वतम्
आब्रह्माण्डं समाख्याप्य कृत्वा भीमं कलेवरम्
पूर्ववत्पूजनं प्रोक्तं मन्त्र स्यास्य विधानतः
अस्यापि मन्त्रवर्यस्य रहस्यं साधनं तु वै
ब्राह्मे मुहूर्ते चोत्थाय कृतनित्यक्रियः शुचिः
मूलमन्त्रं ततो जप्त्वा सिंचेदादित्यसंख्यया
पर्वते वा वने वापि भूमिग्रहणपूर्वकम्
रेचकं च पुनर्याद्यैरेवं प्राणान्नियन्य च
ध्यात्वा पूर्वोक्तविधिना संपूज्य च कपीश्वरम्
सप्तमे दिवसे प्राप्ते कुर्याञ्च पूजनं महत्
महाभयं प्रदत्वा त्रिभागशेषासु निश्चितम्
यथेप्सितं वरं दद्यात्साधकाय कपीश्वरः
तत्क्षणादेव चाप्नोति सत्यं सत्यं न संशयः