रामदूताय नेत्रं स्याद्बह्यास्त्रायास्त्रमीरितम्
चलत्कुण्डलदीप्तास्यं पद्मक्षं मारुतिं स्मरेत्
वैष्णवे पूजयेत्पीठे प्रागुद्दिष्टेन वर्त्मना
जपित्वा क्षुद्ररोगेभ्यो मुच्यते नात्र संशयः
राक्षसौघं विनिघ्नन्तं कपिं ध्यात्वाधनाशनम्
सुग्रीवेण समं रामं संदधानं कपिं स्मरन्
ध्यात्वा लङ्कां दहॄन्तं तमयुतं प्रजपेन्मनुम्
ध्यात्वा प्रयाणसमये हनुमन्तं जपेन्मनुम्
हनुमन्तं सदा गेहे योर्ऽचयेज्जपतत्परः
कानने व्याघ्रचौरेभ्यो रक्षेन्मनुरयं स्मृतः
तस्य दुःस्वप्नचौरादिभयं नैव भवेत्क्वचित्
वर्मास्त्रान्तो महामन्त्रो द्वादशार्णो ऽष्टसिद्धिकृत्
हनुमान्देवतां बीजमाद्यं शक्तिर्हुमीरिता
महाशैलं समुत्पाट्य धावन्तं रावणं प्रति
ज्वलदग्निसमं जैत्रं सूर्यकोटिसमप्रभम्
तिष्ठ तिष्ठ रणे दुष्ट सृजन्तं घोरनिः स्वनम्
दशांशं जुहुयाद्वीहीन्पयोदध्याज्यमिश्रितान्
मूर्तिं संकल्प्य मूलेन पूजा कार्या हनूमतः
अथास्य साधनं वक्ष्ये लोकानां हितकाम्यया
एतद्गुह्यतमं लोके शीघ्रसिद्धिकरं परम्
प्रातः स्नात्वा नदीतीरे उपविश्य कुशासने
पुष्पाञ्जल्यष्टकं दत्वा ध्यात्वा रामं ससीतकम्
कुचन्दनेन घृष्टेन संलिखेत्तच्छलाकया
मूर्तिं मूलेन संकल्प्य ध्यात्वा पाद्यादिकं चरेत्
केसरेषु षडङ्गानि दलेषु च ततोर्ऽचयेत्
जांबवन्तं च कुमुदं केसरीशं दलेर्ऽचयेत्
एवं सिद्धे मनौ मन्त्री साधयेत्स्वेष्टमात्मनि
साधयेत्साधक श्रेष्ठो भूमिग्रहणपूर्वकम्
दिग्बन्ध नादिकं कृत्वा न्यासध्यानादिपूर्वकम्
लक्षान्ति दिवसं प्राप्य कुर्य्याञ्च पूजनं महत्