लक्ष्मणान्ते शक्तिभेदनिवारणपदं वदेत्
बालोदित ततो भानुमण्डलग्रसनेति च
इन्द्रजिदूधकारान्ते णसीतासक्षकेति च
कुंभकर्णादिसंकीर्त्यवधान्ते च परायण
व्योमद्रुमलङ्घनेति महासामर्थ्य संवदेत्
स्वामिवचनसंपादितार्जुनान्ते च संयुग
मार्त्ताण्डमेरु शब्दान्ते वदेत्पर्वतपीटिका
आचार्यमम शब्दान्ते सर्वग्रहविनाशन
सर्वापत्तिनिवारण सर्वदुष्टनिबर्हण
सर्वव्याध्यादि सम्प्रोच्य भयान्ते च निवारण
सर्वशत्रुच्छेदनेति ततो मम परस्य च
सर्वजीवपदान्ते तु जातं वशययुग्मकम्
ततो नानानामधेयान्सर्वान् राज्ञः स संपठेत्
सर्वशस्त्रवीत्यन्ते षाणि विध्वंसय द्वयम्
विलोमं पञ्चकूटानि सर्वशत्रून्हनद्वयम्
परबलानि परान्ते सैन्यानि क्षोभयद्वयम्
मम सर्वं कार्यजातं साधयेति द्वयं ततः
धेत्रयं वर्मत्रितयं फट्त्रयं हान्त्रयं ततः
वह्निप्रियान्तो मन्त्रो ऽयं मालासंज्ञो ऽखिलेष्टदः
वस्वष्टबाणवर्णो ऽयं मन्त्रः सर्वेष्टासाधकः
द्वादशार्णस्य षट्कूटं त्यक्त्वा बीजं तथादिमम्
रामचन्द्रो मुनिश्चास्य गायत्री छन्द ईरितम्
पञ्चबीजैः समस्तेन षडङ्गानि समाचरेत्
सीताशोकविनाशो ऽयं लङ्काप्रासादभञ्जनः
षडङ्गमनवो ह्येते ध्यानपूजादि पूर्ववत्
पञ्चकूटानि मन्त्रो ऽयं रुद्रार्णः सर्वसिद्धिदः
अयमाराधितो मन्त्रः सर्वाभीष्टप्रदायकः
जनेयाय महान्ते तु बलायान्ते ऽग्निवल्लभा
छन्दो ऽनुष्टुप्देवता तु हनुमान्पवनात्मजः
आञ्जनेयाय हृदयं शिरश्च रुद्रमूर्तये