धान्यैः संप्राप्यते धान्यमन्नैरन्नसमुच्छ्रयः
किं बहूक्तैर्विषे व्याधौ शान्तौ मोहे च मारणे
वश्ये युद्धे क्षते दिव्ये बन्धमोक्षे महावने
वक्ष्ये ऽथ हनुमद्यन्त्रं सर्वसिद्धिप्रदायकम्
साध्यनाम लिखेन्मध्ये पाशिबीज प्रवेष्टितम्
तद्बहिर्दंहमालिख्य तद्बहिश्चतुरस्रकम्
सैं बीजं भूपुरस्याष्टवज्रेषु विलिखेत्ततः
तत्सर्वं वेष्टयेद्यन्त्रवलयत्रितयेन च
ताडपत्रे ऽथ भूर्जे वा रोचनानाभिकुङ्कुभैः
कपेः प्राणान्प्रतिष्टाप्य पूजयेत्तद्यथाविधि
मारीज्वराभिचारादिसर्वोपद्रवनाशनम्
भूतकृत्यापिशाचानां दर्शनादेव नाशनम्
दीर्घत्रयान्विता माया प्रागुक्तं कूटपञ्चकम्
आक्रान्तदिग्मण्डलान्ते यशोवितानसंवदेत्
देहज्वलदग्निसूर्य कोट्यन्ते च समप्रभ
लङ्कापुरी ततः पश्चाद्दहनोदधिलङ्घन
सीतान्ते श्वसनपदं वाय्वन्ते सुतमीरयेत्
नन्दन्ति कर वर्णान्ते सैन्यप्राकार ईरयेत्
कारणद्रोणशब्दान्ते पर्वतोत्पाटनेति च
छेदनान्ते वनरक्षाकरान्ते तु समूह च
लक्ष्मणान्ते शक्तिभेदनिवारणपदं वदेत्
बालोदित ततो भानुमण्डलग्रसनेति च
इन्द्रजिदूधकारान्ते णसीतासक्षकेति च
कुंभकर्णादिसंकीर्त्यवधान्ते च परायण
व्योमद्रुमलङ्घनेति महासामर्थ्य संवदेत्
स्वामिवचनसंपादितार्जुनान्ते च संयुग
मार्त्ताण्डमेरु शब्दान्ते वदेत्पर्वतपीटिका
आचार्यमम शब्दान्ते सर्वग्रहविनाशन
सर्वापत्तिनिवारण सर्वदुष्टनिबर्हण
सर्वव्याध्यादि सम्प्रोच्य भयान्ते च निवारण