कृत्वा प्राणप्रतिष्टां च सिंदूराद्यैः प्रपूज्य च
ग्रहाभिचाररोगाग्निविषचौरनृपोद्भवाः
तद्गृहं धनपुत्राद्यैरेधते प्रत्यहं चिरम्
शत्रोः प्रतिकृतिं कृत्वा हृदि नाम समालिखेत्
मन्त्रान्ते प्रोञ्चरेच्छत्रोर्नाम छिन्धि च भिन्धि च
पाण्योस्तले प्रपीड्याथ त्यक्त्वा तं स्वगृहं व्रजेत्
राजिकालवणैर्मुक्तचिकुरः पितृकानने
द्विक(काक)कौशिकगृध्राणां पक्षैः श्लेष्मान्तकाक्षजैः
एवं सप्तदिनं कुर्वन्मारयेदुद्धतं रिपुन्
ततो वेताल उत्थाय वदेद्भावि शुभाशुभम्
भास्मांबुमन्त्रितं रात्रौ सहस्रावृत्तिकं पुनः
यासु कासु च स्थूलासु लघुष्वपि विशेषतः
अष्टम्यां वा चतुर्दश्यां कुजे वा रविवासरे
कुर्याद्रम्यां विशुद्धात्मा सर्वलक्षणलक्षिताम्
संस्थाप्यावाहयेत्पश्चान्मूलमन्त्रेण मन्त्रवित्
रक्तचन्दनपुष्पैश्च सिंदूराद्यैः समर्चयेत्
अपूपमोदनं शाकमोदकान्वटकादिकम्
अखण्डितान्यहिलतादलानि सप्तविंशतिम्
एवं संपूज्य मन्त्रज्ञो जपेद्दशशन्त मनुम्
निजेप्सितं निवेद्याथ विधिवद्विसृजेत्ततः
निवेदितानि पर्णानि तेभ्यो दद्याद्विभज्य च
तत इष्टगणैः सार्द्धं स्वयं भुञ्जीत वाग्यतः
एवं यः कुरुते मर्त्यः सो ऽचिरादेव निश्चितम्
हनुमत्प्रतिमां भूमौ विलिखेत्तत्पुरो मनुम्
एवमष्टोत्तरशतं लिखित्वा मार्जयेत्पुनः
एवमन्यानि कर्माणि कुर्य्यान्त्पल्लवमुल्लिखन्
कुङ्कुमैरिध्मकाष्ठैर्वा मरीचैर्जीरकैरपि
शूले करञ्जवातारिसमिद्भिस्तैललोलितैः
सौभाग्ये चन्दनैश्चेन्द्रलोचनैर्वा लवङ्गकैः
रिपुपादरजोभिश्च राजीलवणमिश्रितैः